2023-12-19 06:25:00 by Bharadwajraki
This page has been fully proofread twice.
[१२५] { कर्णाटे गूर्जरे लाटे सौराष्ट्रे कच्छ-सैन्धवे । उच्चायां चैव भंभेर्यां भारवे मालवे तथा ॥
[१२६] कौंकणे तु तथा राष्ट्रे कीरे जांगलके पुनः । सपादलक्षे मेवाडे ढील्यां जालन्धरेऽपि च ॥
[१२७] जन्तूनामभयं सप्तव्यसनानां निषेधनम् । वादनं न्यायघण्टाया रुदतीधनवर्जनम् ॥ }
१६९) अथ प्रभोः कदाचित्, कच्छपराजलक्षराजमातुर्महासत्याः शापाछ्रीमूलराजान्वयिनां राजन्यानां लूतारोगः सङ्क्रामतीति सम्बन्धात्तु गृहिधर्मप्रतिपत्त्यवसरे प्रभोरुद्गणितराज्यभारे श्रीकुमारपाले तच्छिद्रेण प्रविश्य लूताव्याधिर्बाधामधात् । तद्दुःखदुःखिते सराजलोके राज्ञि प्रणिधानान्निजमायुः सबलं वीक्ष्याऽष्टाङ्गयोगाभ्यासेन प्रभवस्तं लीलयोन्मूलितवन्तः ।
१७०) कदापि कदलीपत्राधिरूढं कमपि योगिनमालोक्य विस्मिताय नृपतये आसनबन्धेन
चतुरङ्गुलभूमित्यागाद्ब्रह्मरन्ध्रेण निर्यत्तेजःपुञ्जं प्रभवो दर्शयामासुः ।
१७१) अथ चतुरशीतिवर्षप्रमाणायुःपर्यन्ते निजमवसानदिनमवधार्यान्त्याराधनक्रियायामनशनपूर्वं प्रारब्धायां तदर्तितरलिताय नृपतये 'तवापि षण्मासीशेषमायुरास्ते, सन्तत्यभावाद्विद्यमान एव निजामुत्तरक्रियां कुर्या' इत्यनुशिष्य दशमद्वारेण प्राणोत्क्रान्तिमकार्षुः । तदनन्तरं प्रभोः संस्कारस्थाने तद्भस्म पवित्रमिति राज्ञा तिलकव्याजेन नमश्चक्रे । ततः समस्तसामन्तैस्तदनु नगरलोकैस्तत्रत्यमृत्स्नायां गृह्यमाणायां तत्र हेमखड्ड इत्यद्यापि प्रसिद्धिः ।
१७२) अथ राजा बाष्पाविललोचनः प्रभुशोकविक्लवमनाः सचिवैर्विज्ञप्त इदमवादीत् -- 'स्वपुण्यार्जितोत्तमतमलोकान् प्रभून्न शोचामि किं तु निजमेव सप्ताङ्गं राज्यं सर्वथा परिहार्यं राजपिण्डदोषदूषितं यन्मदीयमुदकमपि जगद्गुरोरङ्गे न लग्नं तदेव शोचामी'ति प्रभुगुणानां स्मारं स्मारं सुचिरं विलप्य प्रभूदिते दिने तदुपदिष्टविधिना समाधिमरणेन नृपः स्वर्लोकमलंचकार ।
( अत्र P आदर्शे निम्नोद्धृतापएतदुपश्लोकनश्लोकाः प्राप्यन्ते -- )
[१२८] { पृथुप्रभृतिभिः पूर्वैर्गच्छद्भिः पार्थिवैर्दिवम् । स्वकीयगुणरत्नानां यत्र न्यास इवार्पितः ॥
[१२९] न केवलं महीपालाः सायकैः समराङ्गणे । गुणैर्लोकंपृणैर्येन निर्जिताः पूर्वजा अपि ॥
[१३०] वीतरागरतेर्यस्य मृतवित्तानि मुञ्चतः । देवस्येव नृदेवस्य युक्ताभूदमृतार्थिता ॥
[१३१] करवालजलैः स्नातां वीराणामेव योऽग्रहीत् । धौतां बाप्ष्पाम्बुधाराभिर्निर्वीराणां न तु श्रियम् ॥
[१३२] शूराणां सम्मुखान्येव पदानि समरे ददौ । यः पुनस्तत्कलत्रेषु मुखं चक्रे पराङ्मुखम् ॥
[१३३] हृदि प्रविष्टयद्बाणक्लिष्टेनाघूर्णितं शिरः । जाङ्गलक्षोणिपालेन व्याचक्षाणैः परैरपि ।
[१३४] चूडारत्नप्रभाकम्रं नम्रं गर्वादकुर्वतः । कणशः कुङ्कुणेशस्य यश्चकार शरैः शिरः ॥
[१३५] रागाद् भूपालबल्लाल-मल्लिकार्जुनयोर्मृधे । गृहीतौ येन मूर्धानौ स्तनाविव जयश्रियः ॥
[१३६] दक्षिणक्षितिपं जित्वा यो जग्राह द्विपद्वयम् । तद्यशोभिः करिष्यामो विश्वं नश्यद्विपद्वयम् ॥
[१३७] विहारं कुर्वता वैरिवनिताकुचमण्डलम् । महीमण्डलमुद्दण्डविहारं येन निर्ममे ॥
[१३८] पादलग्नैर्महीपालैः पशुभिश्च तृणाननैः । यः प्रार्थित इवात्यर्थमहिंसाव्रतमग्रहीत् ॥ }
१७३) सं० ११९९ वर्षपूर्वं ३१ श्रीकुमारपालदेवेन राज्यं कृतम् ।
[१२६] कौंकणे तु तथा राष्ट्रे कीरे जांगलके पुनः । सपादलक्षे मेवाडे ढील्यां जालन्धरेऽपि च ॥
[१२७] जन्तूनामभयं सप्तव्यसनानां निषेधनम् । वादनं न्यायघण्टाया रुदतीधनवर्जनम् ॥ }
१६९) अथ प्रभोः कदाचित्, कच्छपराजलक्षराजमातुर्महासत्याः शापाछ्रीमूलराजान्वयिनां राजन्यानां लूतारोगः सङ्क्रामतीति सम्बन्धात्तु गृहिधर्मप्रतिपत्त्यवसरे प्रभोरुद्गणितराज्यभारे श्रीकुमारपाले तच्छिद्रेण प्रविश्य लूताव्याधिर्बाधामधात् । तद्दुःखदुःखिते सराजलोके राज्ञि प्रणिधानान्निजमायुः सबलं वीक्ष्याऽष्टाङ्गयोगाभ्यासेन प्रभवस्तं लीलयोन्मूलितवन्तः ।
१७०) कदापि कदलीपत्राधिरूढं कमपि योगिनमालोक्य विस्मिताय नृपतये आसनबन्धेन
चतुरङ्गुलभूमित्यागाद्ब्रह्मरन्ध्रेण निर्यत्तेजःपुञ्जं प्रभवो दर्शयामासुः ।
१७१) अथ चतुरशीतिवर्षप्रमाणायुःपर्यन्ते निजमवसानदिनमवधार्यान्त्याराधनक्रियायामनशनपूर्वं प्रारब्धायां तदर्तितरलिताय नृपतये 'तवापि षण्मासीशेषमायुरास्ते, सन्तत्यभावाद्विद्यमान एव निजामुत्तरक्रियां कुर्या' इत्यनुशिष्य दशमद्वारेण प्राणोत्क्रान्तिमकार्षुः । तदनन्तरं प्रभोः संस्कारस्थाने तद्भस्म पवित्रमिति राज्ञा तिलकव्याजेन नमश्चक्रे । ततः समस्तसामन्तैस्तदनु नगरलोकैस्तत्रत्यमृत्स्नायां गृह्यमाणायां तत्र हेमखड्ड इत्यद्यापि प्रसिद्धिः ।
१७२) अथ राजा बाष्पाविललोचनः प्रभुशोकविक्लवमनाः सचिवैर्विज्ञप्त इदमवादीत् -- 'स्वपुण्यार्जितोत्तमतमलोकान् प्रभून्न शोचामि किं तु निजमेव सप्ताङ्गं राज्यं सर्वथा परिहार्यं राजपिण्डदोषदूषितं यन्मदीयमुदकमपि जगद्गुरोरङ्गे न लग्नं तदेव शोचामी'ति प्रभुगुणानां स्मारं स्मारं सुचिरं विलप्य प्रभूदिते दिने तदुपदिष्टविधिना समाधिमरणेन नृपः स्वर्लोकमलंचकार ।
( अत्र P आदर्शे निम्नोद्धृता
[१२८] { पृथुप्रभृतिभिः पूर्वैर्गच्छद्भिः पार्थिवैर्दिवम् । स्वकीयगुणरत्नानां यत्र न्यास इवार्पितः ॥
[१२९] न केवलं महीपालाः सायकैः समराङ्गणे । गुणैर्लोकंपृणैर्येन निर्जिताः पूर्वजा अपि ॥
[१३०] वीतरागरतेर्यस्य मृतवित्तानि मुञ्चतः । देवस्येव नृदेवस्य युक्ताभूदमृतार्थिता ॥
[१३१] करवालजलैः स्नातां वीराणामेव योऽग्रहीत् । धौतां बा