2023-12-18 07:58:58 by Bharadwajraki
This page has been fully proofread twice.
९६६) अथ कस्मिन्नप्यवसरे सपादलक्षं प्रति सज्जीकृते सैन्ये श्रीवाग्भटस्यानुजन्मा चाहडनामा मन्त्री दानशौण्डतया दूषितोऽपि भृशमनुशिष्य भूपतिना सेनापतिश्चक्रे । तेन प्रयाणद्वित्रयानन्तरमस्तोकमर्थिलोकं मिलितमालोक्य कोशाधिपाल्लक्षद्रव्ये याचिते सति नृपादेशात्तस्मिन्नददाने, अथ तं कशाप्रहारेणाहत्य सेनापतिः कटकान्निरवासयत् । स्वयं तु यदृच्छया दानैः प्रीणितार्थिलोकश्चतुर्दशशतीसंख्यासु करभीष्वारोपितैर्द्विगुणैः सुभटैः समं सञ्चरन् मितैः प्रयाणैर्बम्बेरानगरप्राकारं वेष्टयामास । अथ तस्यां निशि सप्तशतीकन्यानां विवाहः प्रारब्धोऽस्तीति
नगरलोकान् मत्वा तद्विवाहार्थं तथैव निशि स्थित्वा प्रातः प्राकारपरावर्त्तं चकार । तत्राधिगतं स्वर्णकोटीः सप्त तथैकादशसहस्राणि वडवानामिति सम्पत्तिगर्भितां विज्ञप्तिकां वेगवत्तरैर्नरैर्नृपं प्रति प्राहिणोत् । स्वयं तत्र देशे श्रीकुमारपालनृपतेराज्ञां दापयित्वाऽधिकारिणो नियोज्य व्याघुटितः । श्रीपत्तनं प्रविश्य राजसौधमधिगम्य नृपं प्रणनाम । नृपस्तदुचितालापावसरे तद्गुणरञ्जितोऽप्येवमवादीत् -- 'तव स्थूललक्ष्यतैव महद्दूषणं [ बाढान्तिकयोः साधनादौ साधीयान् नेदीयान्प्रयोगनिष्पत्तिः ] रक्षामन्त्रः, नो वा चक्षुर्दोषेणोर्द्ध्व एव विदीर्यसे । यं व्ययं भवान् कुरुते तादृशं कर्त्तुमहमपि न प्रभूष्णुः ।' स इति श्रुतनृपादेशो नृपं प्रति 'तथ्यमेव तदादिष्टं देवेन, एवंविधं व्ययं कर्तुं प्रभुर्न प्रभवति । यतः स्वामी परम्परया न नृपतेः सुतः । अहं तु नृपपुत्रः । अतो मयैव साधीयान् द्रव्यव्ययः क्रियते ।' तेनेति विज्ञप्ते नृपतिस्तोषं करोतु रोषं वा, निकषं निकषाकाञ्चनश्रियमासाद्य, अनर्ध्यतां लभमानो नृपतिविसृष्टः स्वं पदं प्रपेदे ।
॥ इति राजघरट्टचाहडप्रबन्धः ॥
१६७) तथा तस्य कनीयान् भ्राता सोलाकनामा मण्डलीकसत्रागारमिति बिरुदं बभार ।
१६८) अथ कदाचिद् आनाकनामा मातृष्वस्त्रीयस्तत्सेवागुणतुष्टेन राज्ञा दत्तसामन्तपदोऽपि तथैव सेवमानः कदापि मध्यन्दिनावसरे चन्द्रशालापल्यङ्कस्थितस्य नृपतेः पुरो निविष्टः सहसा कमपि प्रेष्यं तत्र प्राप्तं प्रेक्ष्य कोऽयमिति पृष्टे नृपतिना श्रीमदानाकः स्वं कर्मकरमुपलक्ष्य तत्सङ्केतान्निकेतनान्निर्गत्य सकौशलं पृष्टः पुत्रजन्मवर्द्धापनिकां प्रार्थयामास । स तया वार्त्तया तु
दिनकरप्रभयेव विकसितवदनारविन्दं तं विसृज्य स्वं पदमुपेतः । राज्ञा किमेतदिति पृष्टस्तेन स्वामिनः पुत्रोत्पत्तिरिति विज्ञप्ते; स वसुधाधवः स्वगतं किञ्चिदवधार्य तं प्रति प्रकाशं प्राह --
'यज्जन्म निवेदयितुमयं कर्मकरो वेत्रिभिरस्खलित एवेमां भुवमाप तावता पुण्योपचयेनायं गूर्जरदेशे नृपो भावी, परमस्मिन्पुरे धवलगृहे च न; यतोऽतः स्थानादुत्थापितस्य तवाग्रे सुतोत्पत्तिर्निवेदिता, ततो हेतोर्नास्मिन्नगरेश्वरत्वम्' ।
॥ इति विचारचतुर्मुखेन श्रीकुमारपालदेवेन निर्णीतो लवणप्रसादराणकप्रबन्धः ॥
२०५. आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरादब्दान्येव चतुर्दश प्रसृमरां मारिं निवार्यौजसा ।
कीर्तिस्तम्भनिभांश्चतुर्दशशतीसंख्यान्विहारांस्तथा कृत्वा निर्मितवान्कुमारनृपतिर्जैनो निजैनोव्ययम् ॥