2023-02-21 15:33:29 by ambuda-bot
This page has not been fully proofread.
९४
प्रबन्धचिन्तामणिः ।
[ चतुर्थ:
९६६) अथ कस्मिन्नव्यवसरे सपादलक्षं प्रति सज्जीकृते सैन्ये श्रीवाग्भटस्यानुजन्मा चाहड-
नामा मन्त्री दानशौण्डतया दूषितोऽपि भृशमनुशिष्य भूपतिना सेनापति । तेन प्रयाणद्वि-
त्रयानन्तरमस्तोकमर्थिलोकं मिलितमालोक्य कोशाधिपोल्लक्षद्रव्ये याचिते सति नृपादेशान्त-
स्मिन्नददाने, अथ तं कशाप्रहारेणाहत्य सेनापतिः कटकान्निरवासयत् । स्वयं तु यदृच्छया दानैः
5 प्रीणितार्थिलोकञ्चतुर्दशशतीसंख्यासु करभीष्वारोपितैर्द्विगुणैः सुभटैः समं सञ्चरन् मितैः प्रया-
णैर्बम्बेरानगरप्राकारं वेष्टयामास । अथ तस्यां निशि सप्तशतीकन्यानां विवाहः प्रारब्धोऽस्तीति
नगरलोकान् मत्वा तद्विवाहार्थं तथैव निशि स्थित्वा प्रातः प्राकारपरावर्त्त चकार । तत्राधिगतं
स्वर्णकोटी: सस तथैकादशसहस्राणि वडवानामिति सम्पत्तिगर्भितां विज्ञप्तिकां वेगवत्तरर्नर नृपं
प्रति प्राहिणोत् । स्वयं तत्र देशे श्रीकुमारपालनृपतेराज्ञां दापयित्वांऽधिकारिणो नियोज्य व्याघु-
10 टितः । श्रीपत्तनं प्रविश्य राजसौधमधिगम्य नृपं प्रणनाम । नृपस्तदुचितालापावसरे तद्गुणरञ्जि-
तोऽप्येवमवादीत् - 'तव स्थूललक्ष्यतैव महदूषणं [ *वाढान्तिकयोः साधनादौ साधीयान् नेदीया-
न्प्रयोगनिष्पत्तिः ] रक्षामन्त्रः, नो वा चक्षुर्दोषेणोद्धू एव विदीर्यसे । यं व्ययं भवान् कुरुते तादृशं
कर्तुमहमपि न प्रभूष्णुः । स इति श्रुतनृपादेशो नृपं प्रति 'तथ्यमेव तदादिष्टं देवेन, एवंविधं
व्ययं कर्तुं प्रभुर्न प्रभवति । यतः खामी परम्परया न नृपतेः सुतः । अहं तु नृपपुत्रः । अतो
15 मयैव साधीयान् द्रव्यव्ययः क्रियते ।' तेनेति विज्ञते नृपतिस्तोषं करोतु रोषं वा, निकषं निकषा-
काञ्चनश्रियमासाद्य, अनर्ध्यतां लभमानो नृपतिविसृष्टः स्वं पदं प्रपेदे ।
॥ इति राजघरट्टचाह्डप्रबन्धः ॥
१६७) तथा' तस्य कनीयान् भ्राता सोलाकनामा मण्डलीकसत्रागारमिति' बिरुदं बभार ।
१६८) अथ कदाचिद् आनाकनामा मातृष्वस्त्रीयस्तत्सेवागुणतुष्टेन राज्ञा दत्तसामन्तपदोऽपि
20 तथैव सेवमानः कदापि मध्यन्दिनावसरे चन्द्रशालापल्यङ्कस्थितस्य नृपतेः पुरो निविष्टः सहसा
कमपि प्रेष्यं तत्र प्राप्तं प्रेक्ष्य कोऽयमिति पृष्टे नृपतिना' श्रीमदानाकः स्वं कर्मकरमुपलक्ष्य तत्स
ङ्केतान्निकेतनांन्निर्गत्य सकौशलं पृष्टः पुत्रजन्मवर्द्धापनिकां प्रार्थयामास । स तया वार्त्तया तु
दिनकरप्रभयेव विकसितवदनारविन्दं तं विसृज्य स्खं पदमुपेतः । राज्ञा' किमेतदिति पृष्टस्तेन
स्वामिनः पुत्रोत्पत्तिरिति विज्ञप्ते; स वसुधाधवः खगतं किञ्चिदवधार्य तं प्रति प्रकाशं प्राह-
25 'यजन्म निवेदयितुमयं कर्मकरो वेत्रिभिरस्खलित एवेमां भुवमाप" तावता पुण्योपचयेनायं गूर्ज-
रदेशे नृपो भावी, परमस्मिन्पुरे धवलगृहे च नः यतोऽतः स्थानादुत्थापितस्य तवाग्रे सुतोत्पत्ति-
र्निवेदिता," ततो हेतोर्नास्मिन्नगरेश्वरत्वम्' ।
॥ इति विचारचतुर्मुखेन श्रीकुमारपालदेवेन निर्णीतो" लवणप्रसादराणर्केप्रबन्धः ॥
२०५. आज्ञावर्तिपु मण्डलेषु विपुलेष्वष्टादशस्खादरादब्दान्येव चतुर्दश प्रसृमरां मारिं निवायजसा ।
कीर्तिस्तम्भनिभांश्चतुर्दशशतीसंख्यान्विहारांस्तथा कृत्वा निर्मितवान्कुमारनृपतिर्नैनो निजैनोव्ययम् ॥
1P कोशाध्यक्षात् । 2 AD चरैः । 3P दापयामास । * कोष्टकगता पंक्ति: AD आदर्श दृश्यते । 4 D नोचेत् ।
5 D अथ । 6AD 'इति' नास्ति । 7P नृपतिना आदिष्टः । 8B निकेतात्; P
आदर्श 'पृच्छंस्तेन पुत्रजन्मना वर्द्धापितो दिनकरप्रभाविनिद्वारविन्दं सुन्दरवदनम्तं' एतादृशः पाठः
यमांप । 11 P वृत्तांतोऽयं निवेदितः । 12 ID निर्णीतम् । 13 P विहाय नान्यत्र 'राणक' शब्दः ।
नास्ति । + एतदन्तर्गतपाठस्थाने P
9 P क्षितिपतिना । 10 D एवा-
30-