This page has been fully proofread twice.

संस्कारानन्तरमावां प्रचलितावि'ति ताभ्यां विज्ञप्ते तत्कालं पौषधवेश्मनि समागतो नृपः प्रशंसापरः कथं कथमप्यपवार्य द्वासप्ततिमहासामन्तैः समं समस्तसङ्घेन च प्रभुणा द्विधोपदिश्यमानवर्त्मा धुन्धुक्ककनगरे प्राप्तः । प्रभूणां जन्मगृहभूमौ स्वयं कारितसप्तदशहस्तप्रमाणे झोलिकाविहारे प्रभावनां विधित्सुर्जातिपिशुनानां द्विजातीनामुपसर्गमुदितं वीक्ष्य तान् विषयताडितान् कुर्वन् श्रीशत्रुञ्जयतीर्थमाराधयामास । तत्र "दुक्खक्खओ कम्मक्खओ" इति प्रणिधानदण्डकमुच्चरन् देवस्य पार्श्वे विविधप्रार्थनावसरे --
 
२०४. इक्कह फुल्लह माटि सामीउ देयइ सिद्धिसुहु । तिणिसउं केही साटि कटरे भोलिम जिणवरह ॥
 
इति चारणमुच्चरन्तं निशम्य नवकृत्वः पठितेन नवसहस्रांस्तस्मै नृपो ददौ । तदनन्तरमुज्जयन्तसन्निधौ गते तस्मिन्नऽकस्मादेव पर्वतकम्पे सञ्जायमाने श्रीहेमचन्द्राचार्या नृपं प्राहुः -- 'इयं छत्रशिला युगपदुपेतयोरुभयोः पुण्यवतोरुपरि निपतिष्यतीति वृद्धपरंपरा । तदावां पुण्यवन्तौ, यदि गीः सत्या भवति तदा लोकापवादः । नृपतिरेवातो देवं नमस्करोतु न वयमि'त्युक्ते
नृपतिनोपरुध्य प्रभव एव सङ्घेन सहिताः प्रहिताः न स्वयम् । छत्रशिलामार्गं परिहृत्य परस्मिन्
जीर्णप्राकारपक्षे नव्यपद्याकरणाय श्रीवाग्भटदेव आदिष्टः । पद्योपक्षये व्ययीकृतास्त्रिषष्टिलक्षाः ।
 
॥ इति तीर्थयात्राप्रबन्धः ॥
 
१६५) कदाचित्पृथिव्या आनृण्याय नृपतिना स्वर्णसिद्धये श्रीहेमचन्द्रसूरीणामुपदेशात्तद्गुरवः
श्रीदेवचन्द्राचार्याः श्रीसङ्घनृपतिविज्ञप्तिकाभ्यामाकारितास्तीव्रव्रतपरायणा महत्सङ्घकार्यं विमृश्य विधिविहारक्रमेण पथि केनाप्यलक्ष्यमाणा निजामेव पौषधशालामागताः । राजा तु प्रत्युद्गमादिसामग्रीं कुर्वन् प्रभुज्ञापितस्तत्राययौ । अथ गुरोः पुरो नृपतिप्रमुखैः समस्तश्रावकयुतैः
प्रभुभिर्द्वादशावर्त्तवन्दनं दत्त्वा तौ श्रुततदुपदेशौ गुरुभिः पृष्टे सङ्घकार्ये सभां विसृज्य जवनिकान्तरितौ श्रीहेमचन्द्र-नृपती तत्पादयोर्निपत्य सुवर्णसिद्धियाचनां चक्राते । 'मम बाल्ये वर्त्तमानस्य ताम्रखण्डं काष्ठभारवाहकात् याचितवल्लीरसेनाभ्यक्तं युष्मदादेशाद्बहिसंयोगात्सुवर्णीबभूव । तस्या वल्लेर्नामसङ्केतादिरादिश्यतामि'ति श्रीहेमाचार्ये उक्तवति कोपाटोपात् श्रीहेमचन्द्रं दूरतः प्रक्षिप्य 'न योग्योऽसीति; अग्रे मुद्गरसप्रायदत्तविद्यया त्वमजीर्णभाक्, कथमिमां विद्यां मोदकप्रायां तव मन्दाग्नेर्ददामि ?' इति तं निषिध्य नृपं प्रति 'एतद्भाग्यं भवतो नास्ति येन जगदानृण्यकारिणी हेमनिष्पत्तिविद्या तव सिद्ध्यति; अपि च मारिनिवारणजिनमण्डितपृथ्वीकरणादिभिः पुण्यैः सिद्धे लोकद्वये किमतोऽप्यधिकमभिलषसी'त्यादिश्य तदैव विहारक्रमं कृतवन्तः।
 
॥ इति सुवर्णसिद्धिनिषेधप्रबन्धः ॥
 
{ 'एकदा पृष्टः राज्ञा पूर्वभवस्वरूपं तत्सर्वं कथितं प्रभुभिरिति । }