This page has been fully proofread twice.

२००. यूकालक्षशतावलीवलवलल्लोलोल्ललत्कम्बलो दन्तानां मलमण्डलीपरिचयाद्दुर्गन्धरुद्धाननः ।
नासावंशनिरोधनाद्गिणिगिणत्पाठप्रतिष्ठारुचिः सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति ॥
 
इति तदीयममन्दं निन्दास्पदं वचनमाकर्ण्यान्तर्भूतण्यर्थवत्तर्जनापरं वचः प्रभुभिरभिहितम् -- 'पण्डित ! विशेषणं पूर्वमिति भवता किं नाधीतम् ? अतः परं सेवडहेमड इत्यभिधेयमिति' । सेवकैः कुन्तपश्चाद्भागेन तदाहत्य मुक्तः । श्रीकुमारपालनृपते राज्येऽशस्त्रो वध इति तद्वृत्तिच्छेदः कारितः । स ततः परं कणभिक्षया प्राणाधारं कुर्वाणः प्रभूणां पौषधशालायाः पुरतः
स्थितोऽनादिभूपतितपस्विभिरधीयमानं योगशास्त्रमाकर्ण्याऽशठतयेदमपाठीत् --
 
२०१. आतङ्ककारणमकारणदारुणानां वक्रेण गालिगरलं निरगालि येषाम् ।
तेषां जटाधरफटाधरमण्डलानां श्रीयोगशास्त्रवचनामृतमुज्जिहीते ॥
 
इति तद्वचसाऽमृतधारासारेण निर्वाणपूर्वोपतापास्तस्मै द्विगुणां वृत्तिं प्रसादीकृतवन्तः ।
 
॥ इति वामराशिप्रबन्धः ॥
 
१६३) अथ कदाचिच्चारणौ द्वौ सुराष्ट्रामण्डलनिलयौ दूहाविद्यया मिथः स्पर्धमानौ 'श्रीहेमचन्द्राचार्येण यो व्याख्यायते सोऽपरस्य हीनोपक्षयं ददाती'ति प्रतिज्ञाय श्रीमदणहिल्लपुरं प्रापतुः । तदैकेन प्रभुसभागतेन --
 
२०२. लच्छि-वाणिमुहकाणि सा पइं भागी मुह मरउं । हेमसूरिअत्थाणि जे ईसर ते पण्डिया ॥
 
इत्युक्त्वा तृष्णीं स्थिते तस्मिन्; श्रीकुमारविहारे आरात्रिकावसरानन्तरं प्रणामपरो नृपः प्रभुणा दत्तपृष्टिहस्तः क्षणं यावत्तिष्ठति; अत्रान्तरे प्रविश्य द्वितीयश्चारणः --
 
२०३. हेम तुहाला कर मरउं जिह अच्चब्भुयरिद्धि । जे चंपह हिट्ठा मुहा तीह ऊपहरी सिद्धि ॥
 
इत्यनुच्छिष्टेन तद्वचसाऽन्तश्चमत्कृतो नृपतिरेतदेव भूयोभूयः पाठयामास । तेन त्रिःकृत्वः पठिते 'किं पठिते पठिते लक्षं दास्यसी ?'ति विज्ञप्तस्तस्मै त्रिलक्षीं दापयामास ।
 
॥ इति चारणयोः प्रबन्धः ॥
 
१६४) कदाचिच्छ्रीकुमारपालनृपतिः श्रीसङ्घाधिपतीभूय तीर्थयात्रां चिकीर्षुर्महता महेन श्रीदेवालयप्रस्थाने सञ्जाते सति देशान्तरादायातयुगलिकया 'त्वां प्रति डाहलदेशीयकर्णनृपतिरुपैती'ति विज्ञप्तः । स्वेदबिन्दुतिलकितं ललाटं दधानो मन्त्रिवाग्भटेन साकं साध्वसध्वस्तसङ्घाधिपत्यमनोरथः प्रभुपादान्ते स्वं निनिन्द । अथ तस्मिन्नृपतेः समुपस्थिते महाभये किश्चिदवधार्य 'द्वादशे यामे भवतो निवृत्तिर्भविष्यती'त्यादिश्य विसृष्टो नृपः किंकर्त्तव्यतामूढो यावदास्ते तावन्निर्णीतवेलायां समागतयुगलिकया 'श्रीकर्णो दिवं गत' इति विज्ञप्तः । नृपेण ताम्बूलमुत्सृजता कथमिति पृष्टौ तावूचतुः -- 'कुम्भिकुम्भस्थलस्थः श्रीकर्णः निशि प्रयाणं कुर्वन्निद्रामुद्रितलोचनः कण्ठपीठप्रणयिना सुवर्णशृङ्खलेन प्रविष्टन्यग्रोधपादपेनोल्लम्बितः पञ्चतामञ्चितवान् । तस्य