This page has been fully proofread twice.

१५६) मयापहृते धने पुरा कश्चिन्मूषको मृतस्तत्प्रायश्चित्ते राज्ञा याचिते तच्छ्रेयसे प्रभुभिस्तन्नामाङ्कितो विहारः कारितः ।
 
१५७) तथा च कयापि व्यवहारिवध्वाऽज्ञातज्ञातिनामग्रामसम्बन्धया पथि दिनत्रयं बुभुक्षितो नृपतिः शालिकरम्बेन सुहितीकृतस्तत्कृतज्ञतया तत्पुण्याभिवृद्धये करम्बकविहारं श्रीपत्तनेऽकारयत् ।
 
१५८) तथा यूकाविहारश्चैवम्-सपादलक्षदेशे कश्चिदविवेकी धनी केशसंमार्जनावसरे प्रियार्पितां यूकां करतले सङ्गृह्य पीडाकारिणीं तां तर्जयंश्चिरेण मृदित्वा व्यापदयामास । संनिहितेनामारिकारिपञ्चकुलेन स श्रीमदणहिल्लपुरे समानीय नृपाय निवेदितः । तदनु प्रभूणामादेशात्तद्दण्डपदे तस्य सर्वस्वेन तत्रैव यूकाविहारः कारितः ।
 
॥ इति यूकाविहारप्रबन्धः ॥
 
१५९) अथ स्तम्भतीर्थे सामान्ये सालिगवसहिकाप्रासादे यत्र प्रभूणां दीक्षाक्षणो बभूव तत्र
रत्नमयबिम्बालङ्कृतो निरुपमो जीर्णोद्धारः कारितः ।
 
॥ इति सालिगवसहि-उद्धारप्रबन्धः ॥
 
१६०) अथ श्रीसोमेश्वरपत्तने कुमारविहारप्रासादे बृहस्पतिनामा गण्डः कामप्यरतिं कुर्वाणः
प्रभोरप्रसादाद्भ्रष्टप्रतिष्ठः श्रीमदणहिल्लपुरं प्राप्य षोढावश्यकेऽपि प्रौढिं प्राप्तः प्रभून् सिषेवे
कदाचिच्चातुर्मासिकपारणके प्रभूणां पादयोर्द्वादशावर्त्तवन्दनादनु --
 
१९९. चतुर्मासीमासीत्तव पदयुगं नाथ निकषा कषायप्रध्वंसाद्विकृतिपरिहारव्रतमिदम् ।
इदानीमुद्भिद्यन्निजचरणनिर्लोठितकलेर्जलक्लिन्नैरन्नैर्मुनितिलक ! वृत्तिर्भवतु मे ॥
 
इति विज्ञपयंस्तत्कालागतेन राज्ञा प्रसन्नान् प्रभून् विमृश्य स पुनरेव तत्पददानपात्रीकृतः ।
 
॥ इति बृहस्पतिप्रबन्धः ॥
 
१६१) अन्यदा सर्वावसरस्थितेन राज्ञा आलिगनामा वृद्धप्रधानपुरुष इत्यपृच्छ्यत -- 'यदहं
श्रीसिद्धनृपतेर्हीनः समानोऽधिको वा ? ।' तेन चाऽछलप्रार्थनापूर्वं 'श्रीसिद्धनृपतेरष्टनवतिर्गुणा द्वौ
दोषौ; स्वामिनस्तु द्वौ गुणौ तत्संख्या एव दोषाः' इति निवेदिते नृपतिर्दोषमये आत्मनि विरागं दधानो यावच्छुरिकां वैक्षुषि क्षिपति तावत्तदा तदाशयविदा तेनेति व्यज्ञपि -- 'श्रीसिद्धनृपतेरष्टनवतिर्गुणाः सङ्ग्रामाऽसुभटता-स्त्रीलम्पटतादोषाभ्यां तिरोहिताः, कार्पण्यादयो भवद्दोषास्तु समरशूरता-परनारीसहोदरतागुणाभ्यामपह्नुताः' इति तद्वचसा स पृथ्वीनाथः स्वस्थावस्थस्तस्थौ ।
 
॥ इति आलिगप्रबन्धः ॥
 
१६२) अथ पुरा श्रीसिद्धराजराज्ये पाण्डित्ये स्पर्धमानो वामराशिनामा विप्रः प्रभूणां प्रतिष्ठानिष्ठां विशिष्टामसहिष्णुः --