2023-12-18 04:32:37 by Bharadwajraki
This page has been fully proofread twice.
१५२) कदाचित् केनापि पण्डितेनोर्वशीशब्दे शकारस्तालव्यो दन्त्यो वेतिपृष्टे यावत्प्रभवः
किश्चित्समादिशन्ति तावत्, ऊरौ शेते उर्वशीति पत्रकं लिखित्वा श्रीकपर्दिना प्रभोरुत्सङ्गे मुक्तम् । तत्प्रामाण्यात्तालव्यशकारनिर्णयस्तदग्रे प्रभुभिरभिहितः ।
॥ इत्युर्वशीशब्दप्रबन्धः ॥
१५३) अथान्यदा सपादलक्षीयराज्ञः कश्चित्सान्धिविग्रहिकः श्रीकुमारपालनृपतेः सभायामपेतो राज्ञा 'भवत्स्वामिनः कुशलमि'ति पृष्टः । स मिथ्याभिमानी पण्डितमानी च 'विश्वं लातीति विश्वलस्तस्य च को विजयसन्देहः ?' । राज्ञा प्रेरितेन श्रीमता कपर्दिना मन्त्रिणा -- श्वलश्वल्ल आशुगतौ इति धातोर्विरिव श्वलतीति नश्यतीति विश्वलः । अनन्तरं प्रधानेन तन्नामदूषणं विज्ञप्तः स राजा विग्रहराज इति पण्डितमुखान्नाम बभार । परस्मिन्वर्षे स एवं प्रधानः श्रीकुमारपालनृपतेः पुरो विग्रहराज इति नाम विज्ञपयन्, मन्त्रिणा श्रीकपर्दिना-विग्रो विगतनासिक एवंविधो ह-राजौ रुद्रनारायणौ कृतौ येन इति । तदनन्तरं स नृपः कपर्दिना नामखण्डनभीरुः कविबान्धव इति नाम बभार ।
१५४) अथान्यदा श्रीकुमारपालनृपपुरतः श्रीयोगशास्त्रव्याख्याने सञ्जायमाने पञ्चदशकर्मादानेषु वाच्यमानेषु --
"दन्तकेशनखास्थित्वग्रोम्णां ग्रहणमाकरे"
इति प्रभुकृते मूलपाठे पं० उदयचन्द्रं रोग्म्णां ग्रहणमिति भूयो भूयो वाचयन्तं प्रभुभिर्लिपिभेदं पृष्टे स "प्राणितूर्याङ्गानाम्" इति व्याकरणसूत्रेण प्राण्यङ्गानां सिद्धमेकत्वमिति लक्षणविशेषं विज्ञपयन् प्रभुभिः श्लाघितो राज्ञा न्युञ्छनेन सम्भावितः ।
॥ इति पं० उदयचन्द्रप्रबन्धः ॥
१५५) अथ कदाचित्स राजर्षिर्घृतपूरभोजनं कुर्वन् किञ्चिद्विचिन्त्य कृतसर्वाहारपरिहारः पवित्रीभूय इति प्रभुं पप्रच्छ -- 'यदस्माकं घृतपूराहारो युज्यते नवा ?' इति प्रभुभिरभिदधे -- 'वणिग्ब्राह्मणयोर्युज्यते, कृताभक्ष्यनियमस्य क्षत्रियस्य तु न । तेन पिशिताहारस्यानुस्मरणं भवति ।' इत्थमेवेति पृथ्वीपतिरभिधाय पूर्वभक्षितस्याभक्ष्यस्य प्रायश्चित्तं याचितवान् । द्वात्रिंशद्दशनसंख्यया
एकस्मिन् भिडबन्धे द्वात्रिंशद्विहारान्कारयेति । राज्ञा तथाकृते, प्रभुदत्ते प्रतिष्ठालग्ने वटपद्रकान्निजप्रासादमूलनायकप्रतिष्ठां कारयितुं श्रीपत्तनमुपेयुषि कान्हूनाम्नि व्यवहारिणि तन्नगरमुख्ये प्रासादे तद्बिम्बं मुक्त्वा यावदुपहारान्गृहीत्वा स पुनरुपैति तावन्नृपतेरङ्गरक्षकैर्निरुद्धे द्वारि अन्तः प्रवेशमलभमानः कियति काले व्यतिक्रान्ते उत्थितैर्द्वारपालकैर्व्यतीते प्रतिष्ठोत्सवे स तत्र
प्रविश्य प्रभोः पादमूले लगित्वा सोपालम्भं भृशं रुरोद । प्रभुभिरन्यथा दुरपनेयं तस्य दुःखं विमृश्य रङ्गमण्डपाद्बहिर्भूत्वा नक्षत्रचारेण स्वदत्तं लग्नमुदितं व्योम्नि विलोक्य 'कूटघटिकासम्बन्धेन नैमित्तिकेन यस्मिँल्लग्ने बिम्बानि प्रतिष्ठापितानि तेषां वर्षत्रयमायुः । सम्प्रतितने लग्ने तु प्रतिष्ठितं विम्बमिदं चिरायुरि'ति प्रभुभिरादिष्टम् । स तदैव प्रतिष्ठामकारयत्तत्प्रभूक्तं तथैव जज्ञे ।
॥ इत्यभक्ष्यभक्षणप्रायश्चित्तप्रबन्धः ॥
किश्चित्समादिशन्ति तावत्, ऊरौ शेते उर्वशीति पत्रकं लिखित्वा श्रीकपर्दिना प्रभोरुत्सङ्गे मुक्तम् । तत्प्रामाण्यात्तालव्यशकारनिर्णयस्तदग्रे प्रभुभिरभिहितः ।
॥ इत्युर्वशीशब्दप्रबन्धः ॥
१५३) अथान्यदा सपादलक्षीयराज्ञः कश्चित्सान्धिविग्रहिकः श्रीकुमारपालनृपतेः सभायामपेतो राज्ञा 'भवत्स्वामिनः कुशलमि'ति पृष्टः । स मिथ्याभिमानी पण्डितमानी च 'विश्वं लातीति विश्वलस्तस्य च को विजयसन्देहः ?' । राज्ञा प्रेरितेन श्रीमता कपर्दिना मन्त्रिणा -- श्वलश्वल्ल आशुगतौ इति धातोर्विरिव श्वलतीति नश्यतीति विश्वलः । अनन्तरं प्रधानेन तन्नामदूषणं विज्ञप्तः स राजा विग्रहराज इति पण्डितमुखान्नाम बभार । परस्मिन्वर्षे स एवं प्रधानः श्रीकुमारपालनृपतेः पुरो विग्रहराज इति नाम विज्ञपयन्, मन्त्रिणा श्रीकपर्दिना-विग्रो विगतनासिक एवंविधो ह-राजौ रुद्रनारायणौ कृतौ येन इति । तदनन्तरं स नृपः कपर्दिना नामखण्डनभीरुः कविबान्धव इति नाम बभार ।
१५४) अथान्यदा श्रीकुमारपालनृपपुरतः श्रीयोगशास्त्रव्याख्याने सञ्जायमाने पञ्चदशकर्मादानेषु वाच्यमानेषु --
"दन्तकेशनखास्थित्वग्रोम्णां ग्रहणमाकरे"
इति प्रभुकृते मूलपाठे पं० उदयचन्द्रं रो