2023-12-17 05:27:41 by Bharadwajraki
This page has been fully proofread twice.
ध्यायस्य समीपे मातृकापाठात्प्रभृति शास्त्राण्यारभ्यैकेन वर्षेण वृत्तिकाव्यत्रयमधीतम् । विचारचतुर्मुखमिति बिरुदमर्जितम् ।
॥ इति विचारचतुर्मुखश्रीकुमारपालाध्ययनप्रबन्धः ॥
१४९) कस्मिन्नप्यऽवसरे विश्वेश्वरनामा कविर्वाराणस्याः श्रीपत्तनमुपागतः प्रभुश्रीहेमसूरीणां संसदि प्राप्तः । तत्र कुमारपालनृपतौ विद्यमाने सः --
१९५. पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् ।
इति भणित्वा विलम्बमानो नृपेण सक्रोधं निरैक्ष्यत ।
षट्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥
इत्युत्तरार्द्धपरितोषितसमाजलोकः श्रीरामचन्द्रादीनां समस्यां समर्पयामास --
९९६. व्याषिद्धा नयने मुखं च रुदती स्वे गर्हिते कन्यका नैतस्याः प्रसृतिद्वयेन सरले शक्ये पिधातुं
दृशौ ।
सर्वत्रापि च लक्ष्यते मुखशशिज्योत्स्नावितानैरियमित्थं मध्यगता सखीभिरभितो दृग्मीलनाकेलिषु ॥
व्याषिद्वा० । इति श्रीकपर्दिना महामात्येन पूरितायां समस्यायां पश्चात्कविः पञ्चाशत्सहस्र मूल्यं निजं ग्रैवेयकं श्रीकपर्दिनः कण्ठे 'श्रीभारत्याः पदम्' इत्युच्चरन्निवेशयामास । अथ तद्वैदग्ध्यचमत्कृतेन नृपतिना स्वसंनिधौ स्थाप्यमानः --
१९७. कथाशेषः कर्णोऽजनि जनकृशा काशिनगरी सहर्षं हेषन्ते हरिहरिति हम्मीरहरयः ।
सरस्वत्याश्लेषप्रवणलवणोदप्रणयिनि प्रभासस्य क्षेत्रे मम हृदयमुत्कण्ठितमदः ॥
इत्युक्त्वाऽऽपृच्छ्य नृपसत्कृतः स यथास्थानमगात् ।
१५०) कदाचिद्देवश्रीकुमारविहारे नृपाहूताः प्रभवः श्रीकपर्दिना दत्तहस्तावलम्बा यावत्सोपानमारोहन्ति तावन्नर्त्तक्याः कञ्चुके गुणमाकृष्यमाणं विलोक्य श्रीकपर्दी --
१९८. सोहग्गिउ सहिकञ्चुयउ जुत्तउ ताणु करेइ ।
एवमुक्त्वा यावद्विलम्बते
पुट्ठिहि पच्छइ तरुणीयणु जसु गुणगहणु करेइ ॥
इति श्रीप्रभुपादैरुत्तरार्द्धमपूरि ।
१५१) कदाचित्प्रत्यूषे श्रीकपर्दिमन्त्री प्रणामानन्तरं श्रीसूरिभिर्हस्ते किमेतदिति पृष्टः स प्राकृतभाषया ह र ड इ इति विज्ञपयामास । प्रभुभिरुक्तम् -- 'किमद्यापि ?' अनाहतप्रतिभतया तद्वचनच्छलमाकलय्य कपर्दिनोक्तम् -- 'इदानीं तु न ।' कुतोऽन्त्योऽप्याद्योऽभूत्, मात्राधिकश्च । हर्षाश्रुपूरपूर्णदृशः प्रभवः श्रीरामचन्द्रप्रभृतिपण्डितानां पुरस्तात्तच्चातुरीं प्रशशंसुः । तैरज्ञानतत्त्वैः किमिति पृष्टो ह र ड इ इति शब्दच्छलेन हकारो रडइ; अस्माभिरुक्तम् -- 'किमद्यापि ?' इत्यभिहितमात्रेण वचस्तत्वविदाऽनेन नेदानीमुक्तम् । यतः पुरा मातृकाशास्त्रे हकारः प्रान्ते पठ्यते अत एव रडइ; साम्प्रतं त्वस्मन्नामनि प्रथमस्तथा मात्राधिकश्च ।
॥ इति ह र ड इ प्रबन्धः ॥