This page has been fully proofread once and needs a second look.

प्रकाश: ]
 
कुमारपालादिप्रबन्धः ।
 
८९
 
ध्यायस्य समीपे मातृकापाठात्प्रभृति शास्त्राण्यारभ्यैकेन वर्षेण वृत्तिकाव्यत्रयमधीतम् । विचा-
रचतुर्मुखमिति बिरुदमर्जितम् ।
 

 
॥ इति विचारचतुर्मुखश्रीकुमारपालाध्ययनप्रबन्धः ॥
 

 
१४९) कस्मिन्नप्यऽवसरे विश्वेश्वरनामा कविर्वाराणस्योःयाः श्रीपत्तनमुपागतः प्रभु श्रीहेमसूरीणां
संसदि प्रासःप्तः । तत्र कुमारपालनृपतौ विद्यमाने सः -
-
 
१९५. पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् ।
 

 
इति भणित्वा विलम्बमानो नृपेण सक्रोधं निरैक्ष्यत ।

 
षट्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥

 
इत्युत्तरार्द्धपरितोषितसमाजलोकः श्रीरामचन्द्रादीनां समस्यां समर्पयामास -
10
 
-
 
९९६. व्याषिद्धा नयने मुखं च रुदती स्वे गर्हिते कन्यका नैतस्याः प्रसृतिद्वयेन सरले शक्ये पिधातुं शौं ।

दृशौ ।
सर्वत्रापि च लक्ष्यते मुखशशिज्योत्स्नावितानैरियमित्थं मध्यगता सखीभिरभितो दृग्मीलनाकेलिषु ॥

 
व्याषिद्वा० । इति श्रीकपर्दिना महामात्येन पूरितायां समस्यायां पश्चात्कविः' पञ्चाशत्सहस्र
मूल्यं निजं ग्रैवेयकं श्रीकपर्दिनः कण्ठे 'श्रीभारत्याः पदम्' इत्युच्चरन्निवेशयामास । अथ तद्वैव-
ग्ध्यचमत्कृतेन नृपतिना स्वसंनिधौ स्थाप्यमान:नः -
-
 
१९७. कथाशेषः कर्णोऽजनि जनकृशा काशिनगरी सहर्षं हे हेपन्ते हरिहरिति हम्मीरहरयः ।
सरस्वत्या

सरस्वत्या
श्लेषप्रवणलवणोदप्रणयिनि प्रभासस्य क्षेत्रे मम हृदयमुत्कण्ठितमदः ॥
 

 
इत्युक्त्वाऽऽपृच्छ्य नृपसत्कृतः स यथास्थान॑मगात् ।
 

 
१५०) कदाचिद्देवश्रीकुमारविहारे नृपाहूताः प्रभवः श्रीकपर्दिना दत्तहस्तावलम्बा यावत्सो-
पानमारोहन्ति तावन्नर्त्तक्याः कञ्चुके गुणमाकृष्यमाणं विलोक्य श्रीकपर्दी -
-
 
१९८. सोहग्गिउ सहिकञ्चुयउ जुत्तउ ताणु' करेइ ।
 

 
एवमुक्त्वा यावद्विलम्बते
 

 
पुट्ठिहिँहि पच्छइ तरुणीयणु जसु गुणगहणु करेइ ॥
 
5
 
15
 
+ ' इति नृपाध्ययनप्रबन्धः ।' इत्येव P आदर्श । 1B बाणारस्याः । 22 BP उपेतः । 3 D 'प्रभु' नाम्ति । 4 B
रैक्षितः; P निरीक्षितः। 5 BP नास्त्येतत्पदम् । 6 D० पृच्छयमानो आपृच्छय। 7 P यथागतं । 8 AD ● कुमारपालविहारे ।
9 D०त्ताणु;
P ताडु । 10 B० जणु । 11 P विना न । 12 AD आइत० । 13BD परि० । 14 D नास्त्येतत्पदम् ।
* D पुस्तक एवेदं समाप्तिसूचकं वाक्यं विद्यते ।
 
12
 
20
 

 
इति श्रीप्रभुपादैरुत्तरार्द्धमपूरि ।
 

 
१५१) कदाचित्प्रत्यूषे श्रीकपर्दिमन्त्री प्रणामानन्तरं श्रीसूरिभि॑िभिर्हस्ते किमेतदिति पृष्टः स प्राकृत-
भाषया ह र ड इ इति विज्ञपयामास । प्रभुभिरुक्तम् -- 'किमद्यापि ?' अनाहतप्रतिभतया तद्वचन- 25
च्छलमाकलय्य कपर्विदिनोक्तम् -- 'इदानीं तु न ।' कुतोऽन्त्योऽप्याद्योऽभूत्, मात्राधिकञ्श्च । हर्षाश्रुपूर-
पूर्णदृशः प्रभवः श्रीरामचन्द्रप्रभृतिपण्डितानां पुरस्तात्तच्चातुरीं प्रशशंसुः । तैरज्ञानतत्त्वैः किमिति
पृष्टो ह र ड इ इति शब्दच्छलेन हकारो रडइ; अस्माभिरुक्तम् -- 'किमद्यापि ?' इत्यभिहितमात्रेण
वचस्तत्वविदाऽनेन नेदानीमुक्तम् । यतः पुरा मातृकाशास्त्रे हकारः प्रान्ते पठ्यते अत एव
रडइ; साम्प्रतं त्वस्मन्नामनि प्रथमस्तथा मात्राधिकश्च ।
 
30
 

 
॥ इति ह र ड इ प्रबन्धः *