This page has been fully proofread twice.

गुरोश्चरणौ प्रणम्य साधर्मिकवन्दनापूर्वं नृपतिं सत्वरारात्रिकहेतुं पप्रच्छ । 'यथा द्यूतकारो द्यूतरसातिरेकाच्छिरःप्रभृतीन् पदार्थान् पणीकुरुते तथा भवानप्यतः परमर्थिप्रार्थितस्त्यागरसातिरेकाच्छिरोऽपि तेभ्यो ददासी'ति नृपेणादिष्टे 'तल्लोकोत्तरचरित्रेणापहृतहृदया विस्मृताजन्ममनुष्यस्तुतिनियमाः श्रीहैमाचार्याः --
 
१९२. किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः । कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥
 
-- इत्थमाम्रभटमनुमोद्य क्षमापती यथागतं जग्मतुः ।
 
१४७) अथ तत्रागतानां प्रभूणां श्रीमदाम्रभटस्याकस्मिकदेवीदोषात्पर्यन्तदशांगतस्यापृच्छनविज्ञप्तिकायामुपागतायां सत्यां तत्कालमेव -- तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथ्यादृशां देवीनां दोषः सञ्जातः -- इत्यवधार्य प्रदोषकाले यशश्चन्द्रतपोधनेन समं खेचरगत्योत्पत्य निमेषमात्रादलङ्कृतभृगुपुरपरिसरभुवः प्रभवः सैन्धवां देवीमनुनेतुं कृतकायोत्सर्गास्तया जिह्वाकर्षणादवगणनास्पदं नीयमाना, उद्खले शालितन्दुलान्प्रक्षिप्य यशश्चन्द्रगणिना प्रदीयमाने मुशलप्रहारे प्राक् प्रासादः कम्पितः, द्वितीये प्रहारे दीयमाने सा देवीमूर्तिरेव स्वस्थानादुत्पत्य 'वज्रपाणिवज्रप्रहारेभ्यो रक्ष रक्ष' इत्युच्चरन्ती प्रभोश्चरणयोर्निपपात । इत्थमनवद्यविद्याबलात्तन्मूलानां मिथ्यादृग्व्यन्तराणां दोषं निगृह्य श्रीसुव्रतप्रासादमाजग्मुः ।
 
१९३. संसारार्णवसेतवः शिवपथप्रस्थानदीपाङ्कुरा विश्वालम्बनयष्टयः परमतव्यामोहकेतूद्रुमाः ।
किं वास्माकमनोमतङ्गजदृढालानैकलीलाजुषस्त्रायन्तां नखरश्मयश्चरणयोः श्रीसुव्रतस्वामिनः ॥
 
इति स्तुतिभिः श्रीमुनिसुव्रतमुपास्य श्रीमदाम्रभटमुल्लाघस्नानेन पटूकृत्य यथागतमागुः । श्रीमदुदयनचैत्ये शकुनिकाविहारे घटीगृहे राज्ञा कौङ्कणनृपतेः कलशत्रितयं स्थानत्रये न्यास्थत् ॥
 
॥ इति श्रीराजपितामह-आम्रभटप्रबन्धः ॥
 
१४८) अथान्यस्मिन्नऽवसरे कुमारपालनृपतिः पाण्डित्यलिप्सया कपर्दिमन्त्रिणोऽनुमतेन
भोजनानन्तरक्षणे केनापि विदुषा वाच्यमाने कामन्दकीयनीतिशास्त्रे --
 
९९४. पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥
 
वाक्यमिदमाकर्ण्य नृपतेर्मेघ ऊ प म्या इति कुमारपालभूपालेनाभिहिते सर्वेष्वपि सामाजिकेषु
न्युञ्छनानि कुर्वाणेषु तदा कपर्दिमन्त्रिणमवाङ्मुखं वीक्ष्य, एकान्ते नृपपृष्ट एवमवादीत् -- 'ऊ प
म्या शब्दे स्वामिना स्वयमुच्चरिते सर्वव्याकरणेषु अपप्रयोगे "एभिश्छन्दानुवर्त्तिभिर्युञ्छनानि क्रियमाणे मम द्वेधाऽप्यवाङ्मुखत्वं समुचितम् । तथा वरमराजकं विश्वं न तु मूर्खो राजेति प्रतीपभूपालमण्डलेष्वपकीर्त्तिः प्रसरति । अतोऽस्मिन्नर्थे उपमानं उपमेयं औपम्यं उपमा -- इत्याद्याः शब्दाः शुद्धा' इति तद्वचनानन्तरं राज्ञा शब्दव्युत्पत्तिज्ञानहेतवे पञ्चाशद्वर्षदेश्येन कस्याप्युपा-