This page has been fully proofread twice.

स मन्त्री कमपि चारित्रिणमन्वेषयामास । तस्मिन्ननुपलभ्यमाने कमपि वण्ठं तद्वेषमानीय निवेदिते, मन्त्री तदङ्घ्री ललाटेन परिस्पृशन् तत्समक्षं दशधाऽऽराधनां विधाय श्रीमानुदयनः परलोकं
प्राप । वण्ठस्तु चन्दनतरोरिव तद्वासनापरिमलेन क्षुद्रद्रुमवद्वासितोऽनशनप्रतिपत्तिपूर्वकं रैवतके
जीवितान्तं चकार ।
 
१४५) अथाणहिल्लपुरं प्राप्तैस्तैः स्वजनैस्तं वृत्तान्तं ज्ञापितौ वाग्भटाभ्रभटौ तानेवाभिग्रहान् गृहीत्वा जीर्णोद्धारमारेभाते । वर्षद्वयेन श्रीशत्रुञ्जये प्रासादे निष्पन्ने उपेत्यागतमानुषेण वर्द्धापनिकायां याच्यमानायां पुनरागतेन द्वितीयेन पुरुषेण 'प्रासादः स्फुटित' इत्यूचे । ततस्तप्तत्रपुप्रायां गिरं निशम्य श्रीकुमारपालभूपालमापृच्छ्य महं० कपर्दिनि श्रीकरणमुद्रां नियोज्य तुरंगमाणां चतुर्भिः सहस्रैः सह श्रीशत्रुञ्जयोपत्यकां प्राप्य स्वनाम्ना बाहडपुरनगरं निवेशयामास । सभ्रमे प्रासादे पवनः प्रविष्टो न निर्यातीति स्फुटनहेतुं शिल्पिभिर्निर्णीयोक्तम्, भ्रमहीने तु प्रासादे निरन्वयतां च विमृश्याऽन्वयाभावे धर्मसन्तानमेवास्तु; पूर्वोद्धारकारिणां श्री भरतादीनां पङ्क्तौ नामास्तु -- इति तेन मन्त्रिणा दीर्घदर्शिन्या बुद्ध्या विभाव्य भ्रमभित्त्योरन्तरालं शिलाभिर्निचितं विधाय वर्षत्रयेण निष्पन्ने प्रासादे कलशदण्डप्रतिष्ठायां श्रीपत्तनसङ्घं निमन्त्रणापूर्वमिहानीय महता महेन सं० १२११ वर्षे ध्वजाधिरोपं मन्त्री कारयामास । शैलमयबिम्बस्य मम्माणीयखनीसत्कपरिकरमानीय निवेशितवान् । श्रीबाहडपुरे नृपतिपितुर्नाम्ना श्रीत्रिभुवनपालविहारे श्रीपार्श्वनाथं स्थापितवान् । तीर्थपूजाकृते च चतुर्विंशत्यारामान्नगरपरितो वप्रं देवलोकस्य ग्रासवासादि दत्त्वा चैतत्सर्वं कारयामास । अस्य तीर्थोद्धारस्य व्यये --
 
१०१. ष्टिलक्षयुता कोटी व्ययिता यत्र मन्दिरे । स श्रीवाग्भटदेवोऽत्र वर्ण्यते विबुधैः कथम् ॥
 
॥ इति श्रीशत्रुञ्जयोद्धारप्रबन्धः ॥
 
१४६) अथ विश्वविश्वैकसुभटेन श्रीआम्रभटेन पितुः श्रेयसे भृगुपुरे श्रीशकुनिकविहारप्रासादप्रारम्भे खन्यमाने गर्त्तापूरे नर्मदासान्निध्यादकस्मान्मिलितायां भूमौ छादितेषु कर्मकरेषु कृपापरवशतयात्मानमेवामन्दं निन्दन् सकलत्रपुत्रस्तत्र झम्पामदात् । तत्साहसातिशयात्तस्मिन्प्रत्यूहे निराकृते शिलान्यासपूर्वं समस्तप्रासादे निष्पन्ने कलशदण्डप्रतिष्ठावसरे समस्तनगरसङ्घान्निमन्त्रणपूर्वं तत्रानीय यथोचितमशनवस्त्राभरणादिसन्मानैः सन्मान्य समस्तेषु यथागतं प्रहितेषु, आसन्ने लग्ने सञ्जायमाने भट्टारकश्रीहेमचन्द्रसूरिपुरस्सरं सनृपतिं श्रीमदणहिल्लपुरसङ्घं तत्रानीयातुल्यवात्सल्यादिभिर्भूषणादिदानैश्च सन्तर्प्य ध्वजाधिरोपाय सञ्चरन्नार्थिभिः स्वमन्दिरं मुषितं कारयित्वा श्रीसुव्रतप्रासादे ध्वजं महाध्वजोपेनमध्यारोप्य हर्षोत्कर्षात्तत्रानालस्यं लास्यं विधाय तदन्ते भूपतिनाऽभ्यर्थितं आरात्रिकं गृह्णन् तुरङ्गं द्वारभट्टाय दत्त्वा राज्ञा स्वयं कृततिलकावसरः, द्वासप्तत्या सामन्तैश्चामरपुष्पवर्षादिभिः कृतसाहाय्यस्तदात्वागताय बन्दिने कृतकङ्कणवितरणो बाहुभ्यां धृत्वा बलात्कारेण नृपेणावतार्यमाणारात्रिकमङ्गलप्रदीपः श्रीसुव्रतस्य च