This page has been fully proofread twice.

मौलिर्यत्कृत्यमादिशेति व्याजहार । अथ तत्रैव नृपतेर्यावज्जीवं पिशित-प्रसन्नयोर्नियमं दत्वा ततः प्रत्यावृत्तौ क्षमापती श्रीमदणहिल्लपुरं प्रापतुः ।
 
१४३) श्रीजिनवदननिर्गमपावनीभिः शुद्धसिद्धान्तगीर्भिः प्रतिबुद्धो नृपः परमार्हत बिरुदं भेजे । तदभ्यर्थितः प्रभुः त्रिषष्टिशलाकापुरुषचरितम्, विंशतिवीतरागस्तुतिभिरुपेतं पवित्रं श्रीयोगशास्त्रं रचयांचकार । प्रभोरादेशाच्चाज्ञाकारिष्वष्टादशदेशेषु चतुर्दशवत्सरप्रमितां सर्वभूतेषु मारिं निवारितवान् ।
 
[१२३] सप्तर्षयोऽपि सततं गगने चरन्तो मोक्तुं क्षमा नहि मृगीं मृगयोः सकाशात् ।
जीयादसौ चिरतरं प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः ॥
 
[१२४] कलाकलापैः स्तुमहद्धं श्रीहेमचन्द्रम् (१).................।
ररक्ष दक्षः प्रथमः समग्रान् मृगान् यदन्यो मृगमेकमेव ॥
 
तेषु तेषु च देशेषु चत्वारिंशदधिकानि चतुर्दशशतानि विहाराणां कारयामास । सम्यक्त्वमूलानि द्वादशव्रतान्यङ्गीकुर्वन्, अदत्तादानपरिहाररूपे तृतीयव्रते व्याख्यायमाने रुदतीवित्तदोषान्
पापैकनिबन्धनान् ज्ञापितो नृपस्तदधिकृतं पञ्चकुलमाकार्य द्वासप्ततिलक्षप्रमाणं तदायपट्टकं विपाट्य मुमोच । तस्मिन्मुक्ते --
 
१८९. न यन्मुक्तं पूर्वै रघुनहुषनाभागभरतप्रभृत्युर्वीनार्थैः कृतयुगकृतोत्पत्तिभिरपि ।
विमुञ्चन्कारुण्यात्तदपि रुदतीवित्तमधुना कुमारक्ष्मापाल त्वमसि महतां मस्तकमणिः ॥
 
इति विद्वद्भिः स्तूयमाने --
 
१९०. अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः ॥
 
इति प्रभुरपि स नृपतिमनुमोदयांचक्रे ।
 
१४४) अथ सुराष्ट्रादेशीयं सउंसरनामानं विग्रहीतुं श्रीमदुदयनमन्त्रिणं दलनायकीकृत्य समस्तकटकबन्धेन समं [ प्रस्थापयामास ] स श्रीवर्द्धमानपुरं प्राप्य श्रीयुगादिदेवपादान्निनंसुः पुरः
प्रयाणकाय समस्तमण्डलेश्वरान्नभ्यर्थ्य स्वयं विमलगिरिमागतः । विशुद्धश्रद्धया श्रीदेवपादानां पूजादि विधाय यावत्पुरतो विधिवच्चैत्यवन्दनां विधत्ते तावन्नक्षत्रमालाया देदीप्यमानां दीपवर्तिमादाय मूषकः काष्ठमयप्रासादबिले प्रविशन् देवाङ्गरक्षैस्त्याजितः । तदनु स मन्त्री समाधिभङ्गात्काष्ठमयदेवप्रासादविध्वंसंसाध्वसाच्च जीर्णोद्वारं चिकीर्षुः श्रीदेवपादानां पुरत एकभक्तादीनभिग्रहान् जग्राह । तदनु कृतप्रयाणः स्वं स्कन्धवारमुपेत्य तेन प्रत्यर्थिना समं समरे सञ्जायमाने परैः पराजिते नृपबले श्रीमदुदयनः स्वयमुत्तस्थौ । तदा तत्प्रहारजर्जरितदेह आवासं नीतः सकरुणं क्रन्दन् स्वजनैस्तत्कारणं पृष्टः -- सन्निहिते मृत्यौ
श्रीशत्रुञ्जय-शकुनिकाविहारयोर्जीर्णोद्धारवाञ्छया देवऋणं पृष्ठलग्नम् -- मन्त्री प्राह । अथ तैः 'भवन्नन्दनौ वाग्भटाऽऽभ्रभटनामानौ गृहीताभिग्रहौ तीर्थद्वयमुद्धरिष्यतः -- इत्यर्थे वयं प्रतिभुवः' इति तदङ्गीकारात्पुलकिताङ्गो धन्यंमन्यः, अन्त्याराधनाकृते