This page has been fully proofread once and needs a second look.

प्रबन्धचिन्तामणिः ।
 
[ चतुर्थ:
 
मौलिर्यत्कृत्यमादिशेति व्याजहार । अथ तत्रैव नृपतेर्यावज्जीवं पिशित-प्रसन्नयोर्नियमं दत्वा
ततः प्रत्यावृत्तौ क्षमापती श्रीमदणहिल्लपुरं प्रापतुः ।
 

 
१४३) श्रीजिनवदन निर्गमपावनीभिः शुद्धसिद्धान्तगीर्भिः प्रतिबुद्धो नृपः पमार्ह त बिरुवं
दं भेजे । तदभ्यर्थितः प्रभुः त्रिषष्टिशलाकापुरुषचरितम्, विंशतिवीतरागस्तुति भिरुपेतं पवित्रं
5
श्रीयोगशास्त्रं रचयांचकार । प्रभोरादेशाच्चाज्ञाकारिष्वष्टादशदेशेषु चतुर्दशवत्सरप्रमितां सर्व-
भूतेषु मारिं निवारितवान् ।
 
10
 

 
[१२३] सप्तर्षयोऽपि सततं गगने चरन्तो मोक्तुं क्षमा नहि मृगीं मृगयोः सकाशात् ।
जीयादसौ चिरतरं प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः ॥
 
[१२४] कलाकलापैः स्तुमहद्धं श्रीहेमचन्द्रम् (१).................।
ररक्ष दक्षः प्रथमः समग्रान् मृगान् यदन्यो मृगमेकमेव ॥
 
तेषु तेषु च देशेषु चत्वारिंशदधिकानि चतुर्दशशतानि विहाराणां कारयामास । सम्यक्त्वमू-
लानि द्वादशव्रतान्यङ्गीकुर्वन्, अदत्तादानपरिहाररूपे तृतीयव्रते व्याख्यायमाने रुदतीवित्तदोषान्

पापैकनिबन्धनान् ज्ञापितो नृपस्तदधिकृतं पञ्चकुलमाकार्य द्वासप्ततिलक्षप्रमाणं तदायपट्टकं
विपाट्य मुमोच । तस्मिन्मुक्ते -
15
 
[१२३] *सप्तर्षयोऽपि सततं गगने चरन्तो मोक्तुं क्षमा नहि मृगीं मृगयोः सकाशात् ।
जीयादसों चिरतरं प्रभुहेमरिरेकेन येन भुवि जीववधो निषिद्धः ॥
[१२४] *कलाकलापैः स्तुमहद्धं श्रीहेमचन्द्रम् ' (१).
 

 
ररक्ष दक्षः प्रथमः समग्रान् मृगान् यदन्यो मृगमेकमेव ॥
 
-
 
१८९. न यन्मुक्तं पूर्वेवै रघुनहुषनाभागभरतप्रभृत्युर्वीनार्थैः कृतयुगकृतोत्पत्तिभिरपि ।
 

विमुञ्चन्कारुण्यात्तदपि रुदतीवित्तमधुना कुमारक्ष्मापाल त्वममिसि महतां मस्तकमणिः ॥

 
इति विद्वद्भिः स्तूयमाने -
-
 
०. अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः ॥

 
इति प्रभुरपि स नृपतिमनुमोदयांचक्रे ।
 

 
१४४) अथ सुराष्ट्रादेशीयं सउंसर॑नामानं विग्रहीतुं श्रीमदुदयनमन्त्रिणं दलनायकीकृत्यं सम-
य समस्तकटकबन्धेन समं [ प्रस्थापयामास ] स श्रीवर्द्धमानपुरं प्राप्य श्रीयुगादिदेवपादान्निनंसुः पुरः

प्रयाणकाय समस्तमण्डलेश्वरान्नभ्यर्थ्य स्वयं विमलगिरिमागतः । विशुद्धश्रद्धया श्रीदेवपादानां
पूजादि विधाय यावत्पुरतो विधिवञ्च्चैत्यवन्दनां विधत्ते तावन्नक्षत्रमालाया देदीप्यमानां दीपवर्ति-
मादाय मूषकः काष्ठमयप्रासादबिले प्रविशन्' देवाङ्गरक्षैस्त्याजितः । तदनु स मन्त्री समाधिभङ्गा-
25 स्
त्काष्ठमयदेवप्रासादविध्वंसंसाध्वसाच्च जीर्णोद्वारं चिकीर्षुः श्रीदेवपादानां पुरत एकभक्तादीनभि-
ग्रहान् जग्राह । तदनु कृतप्रयाणः स्वं स्कन्धवारमुपेत्य तेन प्रत्यर्थिना समं समरे सञ्जायमाने परैः
पराजिते नृपले श्रीमदुदयनः स्वय॑मुत्तस्थौ । तदा तत्प्रहारजर्जरितदेह आवासं नीतः" सकरुणं
ऋन्दन् ख
क्रन्दन् स्वजनैस्तत्कारणं पृष्टः -- सन्निहिते मृत्यौ
श्रीशत्रुञ्जय-शकुनिकाविहारयोर्जीर्णोद्धारवाञ्छ्या
छया देवऋणं पृष्ठलग्नम् -- मन्त्री प्राह । अथ तैः 'भवन्नन्दनौ वाग्भटाऽऽम्र भ्रभटनामानौ गृहीताभिग्रहौ तीर्थ-
30
द्वयमुद्धरिष्यतः -- इत्यर्थे वयं प्रतिभुवः' इति तदङ्गीकारात्पुलकिताङ्गो धन्यंमन्यः, अन्त्याराधनाकृते
 
13
 
20
 
1 ABD प्रसन्नानियमं ।
 
*
2 'एकः क्षमायाः पृथिव्याः, अन्यः क्षान्तेः पतिः' - 1) टिप्पणी । एतत्पद्यद्वयं P प्रतावेव लभ्यते ।
+ अस्य पद्यस्यायं पूर्वार्द्ध: खण्डितरूप एवोपलब्धः । 3P आहूय । 4 P भूपतिः । 5 B सउसर; P सुसर; D सुंदर ।
6 13 दलमादायैकीकृत्य । 7 ID विहाय नान्यत्रेदं पदम् । 8 D सोपि । 9) प्राविशत् । 10 ID विध्वंसभयात् । 11 D
समुत्तस्थौ । 12 BP ० शरीरः । 13 BP आवासान्; A आवासे ।
 
14 D नीते ।
 
2