2023-02-21 15:33:27 by ambuda-bot
This page has not been fully proofread.
प्रबन्धचिन्तामणिः ।
[ चतुर्थ:
मौलिर्यत्कृत्यमादिशेति व्याजहार । अथ तत्रैव नृपतेर्यावज्जीवं पिशित-प्रसन्नयोर्नियमं दत्वा
ततः प्रत्यावृत्तौ क्षमापती श्रीमदणहिल्लपुरं प्रापतुः ।
१४३) श्रीजिनवदन निर्गमपावनीभिः शुद्धसिद्धान्तगीर्भिः प्रतिबुद्धो नृपः प र मार्ह त बिरुवं
भेजे । तदभ्यर्थितः प्रभुः त्रिषष्टिशलाकापुरुषचरितम्, विंशतिवीतरागस्तुति भिरुपेतं पवित्रं
5 श्रीयोगशास्त्रं रचयांचकार । प्रभोरादेशाचाज्ञाकारिष्वष्टादशदेशेषु चतुर्दशवत्सरप्रमितां सर्व-
भूतेषु मारिं निवारितवान् ।
10
तेषु तेषु च देशेषु चत्वारिंशदधिकानि चतुर्दशशतानि विहाराणां कारयामास । सम्यक्त्वमू-
लानि द्वादशव्रतान्यङ्गीकुर्वन, अदत्तादानपरिहाररूपे तृतीयव्रते व्याख्यायमाने रुदतीवित्तदोषान्
पापैकनिबन्धनान् ज्ञापितो नृपस्तदधिकृतं पञ्चकुलमाकार्य द्वाससतिलक्षप्रमाणं तदायपट्टकं
विपाट्य मुमोच । तस्मिन्मुक्ते-
15
[१२३] *सप्तर्षयोऽपि सततं गगने चरन्तो मोक्तुं क्षमा नहि मृगीं मृगयोः सकाशात् ।
जीयादसों चिरतरं प्रभुहेमरिरेकेन येन भुवि जीववधो निषिद्धः ॥
[१२४] *कलाकलापैः स्तुमहद्धं श्रीहेमचन्द्रम् ' (१).
।
ररक्ष दक्षः प्रथमः समग्रान् मृगान् यदन्यो मृगमेकमेव ॥
१८९. न यन्मुक्तं पूर्वे रघुनहुषनाभागभरतप्रभृत्युर्वीनार्थैः कृतयुगकृतोत्पत्तिभिरपि ।
विमुञ्चन्कारुण्यात्तदपि रुदतीवित्तमधुना कुमारक्ष्मापाल त्वममि महतां मस्तकमणिः ॥
इति विद्वद्भिः स्तूयमाने-
१००. अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः ॥
इति प्रभुरपि स नृपतिमनुमोदयांचक्रे ।
१४४) अथ सुराष्ट्रादेशीयं सउंसर॑नामानं विग्रहीतुं श्रीमदुदयनमन्त्रिणं दलनायकीकृत्यं सम-
स्तकटकबन्धेन समं [प्रस्थापयामास ] स श्रीवर्द्धमानपुरं प्राप्य श्रीयुगादिदेवपादान्निनंसुः पुरः
प्रयाणकाय समस्तमण्डलेश्वरान्नभ्यर्थ्य स्वयं विमलगिरिमागतः । विशुद्धश्रद्धया श्रीदेवपादानां
पूजादि विधाय यावत्पुरतो विधिवञ्चैत्यवन्दनां विधत्ते तावन्नक्षत्रमालाया देदीप्यमानां दीपवर्ति-
मादाय मूषकः काष्ठमयप्रासादबिले प्रविशन्' देवाङ्गरक्षैस्त्याजितः । तदनु स मन्त्री समाधिभङ्गा-
25 स्काष्ठमयदेवप्रासादविध्वंसंसाध्वसाच्च जीर्णोद्वारं चिकीर्षुः श्रीदेवपादानां पुरत एकभक्तादीनभि-
ग्रहान् जग्राह । तदनु कृतप्रयाणः स्वं स्कन्धवारमुपेत्य तेन प्रत्यर्थिना समं समरे सञ्जायमाने परैः
पराजिते नृपयले श्रीमदुदयनः स्वय॑मुत्तस्थौ । तदा तत्प्रहारजर्जरितदेह आवासं नीतः" सकरुणं
ऋन्दन् खजनैस्तत्कारणं पृष्टः- सन्निहिते मृत्यौ श्रीशत्रुञ्जय-शकुनिकाविहारयोर्जीर्णोद्धारवाञ्छ्या
देवऋणं पृष्ठलग्नम् -मन्त्री प्राह । अथ तैः 'भवन्नन्दनौ वाग्भटाऽऽम्र भटनामानौ गृहीताभिग्रहौ तीर्थ-
30 द्वयमुद्धरिष्यतः- इत्यर्थे वयं प्रतिभुवः' इति तदङ्गीकारात्पुलकिताङ्गो धन्यंमन्यः, अन्त्याराधनाकृते
13
20
1 ABD प्रसन्नानियमं ।
*
2 'एकः क्षमायाः पृथिव्याः, अन्यः क्षान्तेः पतिः' - 1) टिप्पणी । एतत्पद्यद्वयं P प्रतावेव लभ्यते ।
+ अस्य पद्यस्यायं पूर्वार्द्ध: खण्डितरूप एवोपलब्धः । 3P आहूय । 4 P भूपतिः । 5 B सउसर; P सुसर; D सुंदर ।
6 13 दलमादायैकीकृत्य । 7 ID विहाय नान्यत्रेदं पदम् । 8 D सोपि । 9) प्राविशत् । 10 ID विध्वंसभयात् । 11 D
समुत्तस्थौ । 12 BP ० शरीरः । 13 BP आवासान्; A आवासे ।
14 D नीते ।
2