This page has been fully proofread twice.

१४१) अन्यदा श्रीहेमचन्द्रस्य लोकोत्तरैर्गुणैः परिहृतहृदयो नृपो मन्त्रिश्रीउदयनमिति पप्रच्छ -- 'यदीदृशं पुरुषरत्नं कस्मिन् समस्तवंशावतंसे वंशे समस्तपुण्यप्रवेशे देशे निःशेषगुणाकरे नगरे च समुत्पन्नम् ?' इति नृपादेशादनु स मन्त्री जन्मप्रभृति तच्चरित्रं पवित्रमित्थमाह -- 'अर्द्धाष्टमनामनि देशे धुन्धुकाभिधाने नगरे श्रीमन्मोढवंशे चाचिगनामा व्यवहारी सतीजनमतल्लिका जिनशासनशासनदेवीव तत्सधर्मचारिणी शरीरिणीव श्री पाहिणीनाम्नी चामुण्डागोत्रजाया
आद्याक्षरेणाङ्कितनामा तयोः पुत्रश्चाङ्गदेवोऽभूत् । स चाष्टवर्षदेश्यः श्रीपत्तनात्तीर्थयात्राप्रस्थितेषु
श्रीदेवचन्द्राचार्येषु धुन्धुक्कके श्रीमोढवसहिकायां देवनमस्करणाय प्राप्तेषु, सिंहासनस्थिततदीयनिषद्याया उपरि सवयोभिः शिशुभिः समं रममाणः सहसा निषसाद । तदङ्गप्रत्यङ्गानां जगद्विलक्षणानि लक्षणानि प्रेक्ष्य -- अयं यदि क्षत्रियकुले जातस्तदा सार्वभौमचक्रवर्ती, यदि वणिग्-विप्रकुले जातस्तदा महामात्यः, चेद्दर्शनं प्रतिपद्यते तदा युगप्रधान इव कलिकालेऽपि कृतयुगमवतारयति -- स आचार्य इति विचार्य तन्नगरवास्तव्यैर्व्यवहारिभिः समं तल्लिप्सया चाचिगौकः प्राप्य तस्मिंश्चाचिगे ग्रामान्तरभाजि तत्पत्न्या विवेकिन्या स्वागतादिभिः परितोषितः 'श्रीसङ्घस्त्वत्पुत्रं याचितुमिहागत' इति व्याहरन्, अथ सा हर्षाश्रूणि मुञ्चती स्वं रत्नगर्भं मन्यमाना, श्रीसङ्घस्तीर्थकृतां मान्यः, स मत्सूनुं याचते इति हर्षास्पदेऽपि विषादः । यतः -- एतस्य पिता नितान्तमिथ्यादृष्टिः । तादृशोऽपि सम्प्रति ग्रामे नास्ति । अथ तैर्व्यवहारिभिस्त्वया दीयतामित्युक्ते स्वदोषोत्तारणाय मात्रा दाक्षिण्यादमात्रगुणपात्रं पुत्रस्तेभ्यो गुरुभ्यो ददे । तदनन्तरं तया श्रीदेवचन्द्रसूरिरिति तदीयमभिधानमबोधि । तैर्गुरुभिः स शिशुः 'शिष्यो भविष्यसी?'ति पृष्टः, ओमित्युच्चरन् प्रतिनिवृत्तैस्तैः समं कर्णावत्यामाजगाम । स उदयनमन्त्रिगृहे तत्सुतैः समं बालधारकैः पाल्यमानो यावदास्ते तावता ग्रामान्तरादागतश्चाचिगस्तं वृत्तान्तं परिज्ञाय पुत्रदर्शनावधिसंन्यस्तसमस्ताहारस्तेषां गुरूणां नाम मत्वा कर्णावतीं प्राप्तः । तद्वसतौ समागत्य कुपितः पिता ईषत्तान् प्रणनाम । गुरुभिः सुतानुसारेणोपलक्ष्य विचक्षणतया विविधाभिरावर्जनाभिरावर्ज्य, तत्रानीतेनोदयनमन्त्रिणा धर्मबन्धुबुद्ध्या निजमन्दिरे नीत्वा ज्यायःसहोदरभक्त्या भोजयांचक्रे । तदनु चाङ्गदेवं सुतं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रसादसहितं दुकूलत्रयं प्रत्यक्षं लक्षत्रयं चोपनीय सभक्तिकमावर्जितः । तं प्रति चाचिगः प्राह -- 'क्षत्रियस्य मूल्ये अशीत्यधिकसहस्रम्, तुरगस्य मूल्ये पञ्चाशदधिकानि सप्तदशशतानि, अकिञ्चित्करस्यापि वणिजो मूल्ये नवनवतिकलभाः एतावता नवनवतिलक्षा भवन्ति । त्वं तु लक्षत्रयं समर्पयन्नौदार्यच्छद्मना कार्पण्यं प्रादुःकुरुषे । मदीयः सुतस्तावदनर्घ्यो भवदीया च भक्तिरनर्ध्यतमा, तदस्य मूल्ये सा भक्तिरेवास्तु, शिवनिर्माल्यमिवास्पृश्यो मे द्रव्यसञ्चयः । इत्थं चाचिगे सुतस्य स्वरूपमभिदधाने प्रमोदपूरित-