This page has been fully proofread twice.

इति महाकविप्रणीतत्वात्परलोकसमारचनाय भवद्भिः सह मैत्र्यमभिलषामी'ति व्याहरन्,
अप्रतिषिद्धमनुमतमिति तस्य महर्षेः परीक्षितचित्तवृत्तिः श्रीमुखेन स नृपः स्खलनाकारिणां
वेत्रिणां सर्वदूयकं ददौ ।
 
१३९) अथ तत्र गतायाते सञ्जायमाने सूरेर्गुणग्रामस्तवं कुर्वत्युर्वीपतौ पुरोधा विरोधादालिगः प्राह --
 
१८२. विश्वामित्रपराशरप्रभृतयो येऽन्येऽम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं चैदृष्ट्वैव मोहं गताः ।
आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवास्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥
 
इति तद्वचनानन्तरं हेमचन्द्रः प्राह --
 
१८३. सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतमेति किलैकवेलम् ।
पारापतः खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं वद कोऽत्र हेतुः ॥
 
तन्मुखमुद्राकारिणि प्रत्युत्तरेऽभिहिते सति, 'नृपप्रत्यक्षं केनापि मत्सरिणैते सिताम्बराः सूर्यमपि न मन्यन्ते इत्यभिहिते --
 
९८४. अधाम धामधामार्कं वयमेव हृदि स्थितम् । यस्यास्तव्यसने जाते त्यजामो भोजनं यतः ॥
 
इति प्रामाण्यनैपुण्याद्वयमेव सूर्यभक्ताः नैते तत्त्वतः । इति तन्मुखबन्धे जाते कदाचिद्देवतावसरक्षणे सौधमागते मोहान्धकारधिक्कारचन्द्रे श्रीहेमचन्द्रे यशश्चन्द्रगणिना रजोहरणेनासनपट्टं प्रमार्ज्य कम्बले तत्र निहिते, अज्ञाततत्त्वतया किमेतदिति नृपेण पृष्टः प्राह -- 'कदाचिदिह कोऽपि
जन्तुर्भवति तदाबाधापरिहारायाऽसौ प्रयत्नः ।' 'यदा प्रत्यक्षतया जन्तुर्निरीक्ष्यते तदैवेदं युज्यते नापरथा, वृथाप्रयासहेतुत्वादि'ति युक्तियुक्तां नृपोक्तिमाकर्ण्य तैः सूरिभिरभिदधे -- 'भवतां गजतुरगाद्या चमूः किं प्रतिनृपतिरिपावुपस्थिते क्रियते उत पूर्वमेव ? यथायं राजव्यवहारस्तथा धर्मव्यवहारोऽपी'ति तद्गुणरञ्जितहृदा पूर्वप्रतिपन्ने राज्ये दीयमाने सर्वशास्त्रविरोधहेतुत्वात् ; यदाह --
 
१८५. राजप्रतिग्रहदग्धानां ब्राह्मणानां युधिष्ठिर ! । दग्धानामिव बीजानां पुनर्जन्म न विद्यते ॥
 
इदं पुराणोक्तम् । तथा च जैनागमः --
 
सन्निही गिहिमत्ते य रायपिण्डे किमिच्छए ।
 
इति [ प्रभूक्तं श्रुत्वा ] तत्सम्बोधाच्चमत्कृतचित्तः श्रीपत्तनं प्राप ।
 
१४०) भूपोऽन्यदा मुनिं पप्रच्छ 'कयापि युक्त्याऽस्माकमपि यशःप्रसरः कल्पान्तस्थायी भवति ?' इति तदीयां गिरं श्रुत्वा 'विक्रमार्क इव विश्वस्यानृण्यकरणात्, यद्वा श्रीसोमेश्वरस्य काष्ठमयं प्रासादं वारिधिशीकरनिकरैरासन्नाम्भःशीर्णप्रायं युगान्तस्थायिकीर्त्तये समुद्धरे'ति चन्द्रातपनिभया श्रीहेमचन्द्रगिरोल्लसन्मुदाम्भोधिर्नृपस्तमेव महर्षिं पितरं गुरुं दैवतं मन्यमानो विजातीनितरद्विजान् निन्दन्, ततः प्रासादोद्धाराय तदैव दैवज्ञनिवेदितसुलग्नस्तत्र पञ्चकुलं प्रस्थाप्य प्रासादप्रारम्भमचीकरत् ।