2023-12-11 09:05:05 by Bharadwajraki
This page has been fully proofread twice.
संग्रामसज्जं विमृश्य स मल्लिकार्जुननृपतिः प्रहरंस्तत्सैन्यं त्रासयामास । अथ तेन पराजितः स
सेनापतिः कृष्णवदनः कृष्णवसनः कृष्णच्छत्रालङ्कृतमौलिः कृष्णगुरूदरे निवसन्, चौलुक्यभूभुजा विलोक्य 'कस्यासौ सेनानिवेशः ?' इत्यादिष्टे 'कुङ्कुणात्प्रत्यावृत्तस्य पराजितस्याम्बडसेनापतेः सेनानिवेशोऽयमि'ति विज्ञप्ते, तस्य 'त्रपया चमत्कृतचित्तः प्रसन्नया दृशा तं सम्भावयंस्तदपरैर्बलवद्भिः सामन्तैः समं मल्लिकार्जुनं जेतुं पुनः प्रहितः । [ स तु कौङ्कुणदेशं प्राप्य ] तां नदीमासाद्य पद्याबन्धे विरचिते तेनैव पथा यथानुक्रमं सैन्यमुत्तार्य सावधानवृत्त्याऽसमसमरारम्भे हस्तिस्कन्धाधिरूढं वीरवृत्त्या मल्लिकार्जुनमेव निश्चलीकुर्वन् स आम्बडः सुभटो दतिदन्तमुशलसोपानेन कुम्भिकुम्भस्थलमधिरुह्य माद्यदुद्दामरणरसः 'प्रथमं प्रहर, इष्टदैवतं वा स्मर' इत्युच्चरन् धारालकरालकरवालप्रहारान्मल्लिकार्जुनं पृथ्वीतले पातयन् सामन्तेषु तन्नगरलुण्ठनष्व्यापृतेषु केसरिकिशोरः करिणमिव लीलयैव जघान । तन्मस्तकं स्वर्णेन वेष्टयित्वा तम्मिन्देशे चौलुक्यचक्रवर्त्तिन आज्ञां दापयन् श्रीमदणहिल्लपुरं प्राप्य सभानिषण्णेषु द्वासप्ततिसामन्तेषु स्वामिनः श्रीकुमारपालनृपतेश्चरणौ तिच्छिरःकमलेन पूजयामास । तथा वस्तु ४ शृङ्गारकोडीसाडी १, माणिकउ पछे[व]डउ २, पापखउ हारु ३, संयोगसिद्धि सिप्रा ४; तथा हेमकुम्भा ३२, मूडा ६ मौक्तिकानां, सेडउ चतुर्दन्तहस्ति १, पात्राणां १२०, कोडीसार्द्ध १४ द्रव्यस्य दण्डः । एतैर्वस्तुभिश्च सह । तदवदातप्रीतेन राज्ञा श्रीमुखेन श्रीमदाम्बडाभिधानमहामण्डलेश्वरस्य
"राजपितामह" इति बिरुदं ददे ।
॥ इति आम्बडप्रबन्धः ॥
१३८) अथ कदाचिदणहिल्लपुरे भट्टारकश्रीहेमचन्द्रसूरयो दत्तव्रतायाः पाहिणिनाम्न्याः स्वमातुः परलोकावसरे कोटिनमस्कारपुण्ये दत्ते व्यापत्तेरनु तत्संस्कारमहोत्सवे क्रियमाणे त्रिपुरुषधर्मस्थानसंनिधौ तत्तपस्विभिः सहजमात्सर्याद्विमानभङ्गापमाने सूत्रिते सति तदुत्तरक्रियां
निर्माय तेनैव मन्युना मालवकसंस्थितस्य कुमारपालभूपालस्य स्कन्धावारमलंचक्रुः ।
१७९. आपणपइं प्रभु होईयइ कह प्रभु कीजह हत्थि । काजु करेवा माणुसह त्रीजउ मागु न अत्थि ॥
इति वचस्तत्वं विमृशन्तः श्रीमदुदयनमन्त्रिणा नृपतेर्निवेदितागमनाः कृतज्ञमौलिमणिना नृपेण परोपरोधात्सौधमानीताः । तद्राज्यप्राप्तिनिमित्तज्ञानं स्मारयन्नृपः 'भवद्भिः सदैव देवतार्चनावसरेऽभ्युपेतव्यमि'त्युपरोधयन् --
१८०. भुञ्जीमहि वयं भैक्ष्यं जीर्णं वासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥
इति सूरिभिरभिहिते नृपः --
९८९. एकं मित्रं भूपतिर्वा यतिर्वा एका भार्या सुन्दरी वा दरी वा ।
एकं शास्त्रं वेदमध्यात्मकं वा एको देवः केशवो वा जिनो वा ॥
सेनापतिः कृष्णवदनः कृष्णवसनः कृष्णच्छत्रालङ्कृतमौलिः कृष्णगुरूदरे निवसन्, चौलुक्यभूभुजा विलोक्य 'कस्यासौ सेनानिवेशः ?' इत्यादिष्टे 'कुङ्कुणात्प्रत्यावृत्तस्य पराजितस्याम्बडसेनापतेः सेनानिवेशोऽयमि'ति विज्ञप्ते, तस्य 'त्रपया चमत्कृतचित्तः प्रसन्नया दृशा तं सम्भावयंस्तदपरैर्बलवद्भिः सामन्तैः समं मल्लिकार्जुनं जेतुं पुनः प्रहितः । [ स तु कौङ्कुणदेशं प्राप्य ] तां नदीमासाद्य पद्याबन्धे विरचिते तेनैव पथा यथानुक्रमं सैन्यमुत्तार्य सावधानवृत्त्याऽसमसमरारम्भे हस्तिस्कन्धाधिरूढं वीरवृत्त्या मल्लिकार्जुनमेव निश्चलीकुर्वन् स आम्बडः सुभटो दतिदन्तमुशलसोपानेन कुम्भिकुम्भस्थलमधिरुह्य माद्यदुद्दामरणरसः 'प्रथमं प्रहर, इष्टदैवतं वा स्मर' इत्युच्चरन् धारालकरालकरवालप्रहारान्मल्लिकार्जुनं पृथ्वीतले पातयन् सामन्तेषु तन्नगरलुण्ठन