This page has been fully proofread twice.

जितं जितमिति ब्रुवाणः स्वयं पोतं भ्रमयांचकार । इति सर्वेषां सामन्तानां सर्वानपि तुरङ्गमान् स नृपतिराक्रम्य जग्राह ।
 
॥ इति चाहडकुमारप्रबन्धः ॥
 
१३३) तदनु चौलुक्यराज्ञा कृतज्ञचक्रवर्तिना आलिगकुलालाय सप्तशतीग्राममिता विचित्रा
चित्रकूटपट्टिका ददे । ते तु निजान्वयेन लज्जमाना अद्यापि सगरा इत्युच्यन्ते । यैश्च छिन्नकण्टकान्तरे प्रक्षिप्य क्षितिपो रक्षितस्तेऽङ्गरक्षकपदे प्रतिष्ठिताः ।
 
१३४) अथ सोलाकनामा गन्धर्वोऽवसरे गीतकलया परितोषिताद्वाज्ञः प्रसादे षोडशाधिकं द्रम्माणां शतं प्राप्य, तैः सुखभक्षिकां विसाध्य तया बालकांस्तर्पयन् कुपितेन राज्ञा निर्वासितः । ततो विदेशं गतस्तत्रत्यभूपतेर्गीतकलया अतुलया रञ्जितात्प्रसादप्राप्तं गजयुगलमानीयोपायनीकुर्वन् चौलुक्यभूपालेन सम्मानितः ।
 
१३५) कदाचित्कोऽपि वैदेशिकगन्धर्वो 'मुषितोऽस्मि मुषितोऽस्मी'ति तारं वुम्बारावं कुर्वाणः, 'केन मुषितोऽसी'ति राज्ञाभिहितो 'ममातुलया गीतकलया समीपागतेन, मया कौतुकाद्गलन्यस्तकनकशृङ्खलेन त्रस्यता मृगेण' इति विज्ञपयामास । तद्नु भूपतिना समादिष्टः सोलाभिधानो गन्धर्वराडऽटवीमटन् स्फीतगीताकृष्टिविद्यया कनकशृङ्खलाङ्कितगलं मृगं नगरान्तः समानीय तस्य भूपतेर्दर्शयामास ।
 
१३६) अथ तत्कलाकौशलचमत्कृतमानसः प्रभुः श्रीहेमाचार्यो गीतकलाया अवधिं पप्रच्छ । स तु शुष्कदारुणः पल्लवप्ररोहमवधिं विज्ञप्तवान् । 'तर्हि तत्कौतुकं दर्शये'त्यादिष्टः, अर्बुदाद्गिरेर्विरहकनामानं वृक्षमाक्षेपादानाय्य तच्छुष्कशाखाखण्डं राजाङ्गणे कुमारमृत्तिकया कॢप्तालवाले निवेश्य निजया नवगीतगीतकलया सद्यः प्रोल्लसत्पल्लवं तं निवेदयन्, सनृपतीन् भट्टारकश्रीहेमचन्द्रसूरीन् परितोषयामास ।
 
॥ इति बइकारसोलाकप्रबन्धः ॥
 
१३७) अथ कदाचित्सर्वावसरस्थितश्चौलुक्यचक्रवर्त्ती कौङ्कुणदेशीयमल्लिकार्जुनाभिधानराज्ञो
मागधेन "राजपितामह" इति बिरुदमभिधीयमानमाकर्ण्य तदसहिष्णुतया सभां निभालयन्नृपचित्तविदा मन्त्रिणाऽम्बडेन योजितकरसम्पुटं दर्शयता चमत्कृतः, सभाविसर्जनानन्तरमञ्जलिबन्धस्य कारणं पृच्छन्नेवमवादीत् -- 'यदस्यां सभायां स कोऽपि सुभटो विद्यते यं प्रस्थाप्य मिथ्याभिमानिनं चतुरङ्गनृपवन्नृपाभासं मल्लिकार्जुनं विनाशयामः -- इत्याशयविदा मया त्वदादेशक्षमेण चाञ्जलिबन्धश्चक्रे' इति तद्विज्ञप्तिसमनन्तरमेव तं नृपं प्रति प्रयाणाय दलनायकीकृत्य पश्चाङ्गप्रसादं दत्त्वा समस्तसामन्तैः समं विससर्ज । स चानवच्छिन्नैः प्रयाणैः कुङ्कुणदेशमधिगम्य दुर्वारवारिपूरां कलविणिनाम्नीं सरितमुत्तरन् परस्मिन्कूले आवासेषु दीयमानेषु तं