This page has been fully proofread once and needs a second look.

८०
 
प्रबन्धचिन्तामणिः
 
[ चतुर्थः
 
जितं जितमिति ब्रुवाणः स्वयं पोतं भ्रमयांचकार । इति सर्वेषां सामन्तानां सर्वानपि तुरङ्गमान्
नृपतिराक्रम्य जग्राह ।
 

 
॥ इति चाहडकुमारप्रबन्धः ॥
 

 
१३३) तदनु चौलुक्यराज्ञा कृतज्ञचक्रवर्तिना आलिगकुलालाय सप्तशतीग्राममिता विचित्रा
5

चित्रकूटपट्टिका ददे । ते तु निजान्वयेन लज्जमाना अद्यापि सगरा इत्युच्यन्ते । यैश्च छिन्नक-
ण्टकान्तरे प्रक्षिप्य क्षितिपो रक्षितस्तेऽङ्गरक्षकपदे प्रतिष्ठिताः ।
 

 
१३४) अथ' सोलाकनामा गन्धर्वोऽवसरे गीतकलया परितोषिताद्वाज्ञः प्रसादे' षोडशाधिकं
द्रम्माणां शतं प्राप्य, तैः सुखभक्षिकां विसाध्य तया बालकांस्तर्पयन् कुपितेन राज्ञा निर्वा-
सितः । ततो विदेशं गतस्तत्रत्यभूपतेर्गीतकलया अतुलया' रञ्जितात्प्रसादप्राप्तं गजयुगलमानी-
10
योपायनीकुर्वन्' चौलुक्यभूपालेन सम्मानितः ।
 

 
१३५) कदाचित्कोऽपि वैदेशिकगन्धर्वो 'मुषितोऽस्मि मुषितोऽस्मी'ति तारं बुवुम्बारावं कुर्वाणः,
'केन मुषितोऽसी'ति राज्ञाभिहितो 'ममातुलया गीतकलया 'समीपागतेन, मया कौतुकाद्गलन्य-
स्तक
स्तकनकशृङ्खलेन' त्रस्यता मृगेण' इति विज्ञपयामास । तद्नु भूपतिना समादिष्टः सोलाभिधानो
गन्धर्वराडऽटवीमटन् स्फीतगीताकृष्टिविद्यया कनकशृङ्खलाङ्कितगलं' मृगं नगरान्तः समानीय
15
तस्य भूपतेर्दर्शयामास ।
 

 
१३६) अथ तत्कलाकौशल चमत्कृतमानसः प्रभुः श्रीहेमाचार्यो गीतकलाया अवधिं पप्रच्छ ।
स तु शुष्कदारुणः पल्लवप्ररोहमवधिं विज्ञप्तवान् । 'तर्हि तत्कौतुक'कं दर्शये'त्यादिष्टः, अर्बुदाद्गिरे-
र्विरहकनामानं वृक्षमाक्षेपादानाय्य तच्छुष्कशाग्वाग्वखाखण्डं राजाङ्गणे कुमारमृत्तिकया कॢप्तालवाले
निवेश्य" निजया नवगीतगीतंकलया सद्यः प्रोल्लसत्पल्लवं तं निवेदयन्, सनृपतीन् भट्टारकश्री-
20
हेमचन्द्रसूरीन् परितोषयामास ।
 
13
 
10
 
15
 

 
॥ इति "बइकारसोलाकप्रबन्धः ॥
 
10
 
17
 

 
१३७) अथ कदाचित्र्वावसर स्थित श्चौलुक्यचक्रवर्त्ती कोकौङ्कुणदेशीयमल्लिकार्जुनाभिधानराज्ञो

मागधेन "राजपितामह" इति बिरुदमभिधीयमानमाकर्ण्य तदसहिष्णुतया सभां निभालयन्नृप-
चित्तविदा मन्त्रिणा ऽम्बडेन योजितकरसम्पुढंटं दर्शयता चमत्कृतः, सभाविसर्जनानन्तरमञ्जलि-
25
बन्धस्य कारणं पृच्छन्नेवमवादीत् ' -- 'यदस्यां सभायां स कोऽपि सुभटो" विद्यते यं प्रस्थाप्य
मिथ्याभिमानिनं चतुरङ्गनृपवन्नृपाभासं मल्लिकार्जुनं विनाशयामः -- इत्याशयविदा मया त्वदा-
देशक्षमेण चाञ्जलिबन्धश्चक्रे"' इति तद् विज्ञप्तिसमनन्तरमेव तं नृपं प्रति प्रयाणाय दलनायकी"-
कृत्य पश्चाङ्गप्रसादं दत्त्वा समस्तसामन्तैः समं विससर्ज । स चानवच्छिन्नै:नैः प्रयाणैः कुङ्कुणदेश-
मधिगम्य दुर्वारवारिपूरां कलविणिनाम्नीं सरितमुत्तरन् परस्मिन्कूले आवासेषु दीयमानेषु तं
 
20
 
1 BP De तस्य चौलुक्यराज्ञः पट्टाभिषेकानन्तरं स सोलाकनामा । 2 D नाम्ति । 3 D तेन । 4 D नास्ति । एत-
दन्तर्गतपाठस्थाने P प्रतो एतादृशः पाठः- 'तन्निर्भर्त्सनया विदेशे गतः सकरेणुं करेणुं सकलया रञ्जितात्तत्रत्यभूपतेर्लब्ध्वा समानीय० ।'
5 B आदर्श एवेदं पदं विद्यते । 6P सांराविणं । १ - १ BP सामीप्यमुपेयुपा कौतुकार्पितगलशृंखलेन । 7 BP गलखेलत्कनक-
श्रृंखलं । 8P तत्कौशलं । 9 AD शाखायाः काष्टं । 10 BP 0 मृत्तिकालसा०, B ० मृत्तिकाक्षिप्ता० । 11 P विन्यस्य ।
12 ID द्वितीयः 'गीत' शब्दो नाम्ति । 13 B हेमाचार्यान्; P हेमचन्द्राचार्यान् । 14 P वहकार; D अच्छड्कार । 15P
नृपतिः । 16 P नास्ति । 17 D एवमूचे; P एवं तेन प्रोचे । 18 P नास्ति 'सुभटः' । 19P बन्धोऽकारि । 20 'तद्'
नाम्ति AD 21 D दलमेकीकृत्य । 22 P आसाथ ।