This page has been fully proofread twice.

त्यजसी'ति भाषमाणो मर्तुकाम औषधमिव तद्वचः पथ्यमपि न जग्राह । नृपस्तदाकारसंवरणेनाऽपन्हवं विधायाऽपरस्मिन्दिवसे नृपसङ्केतितैर्मल्लैस्तदङ्गभङ्गं कृत्वा नेत्रयुगं समुद्धृत्य च तं तदावासे प्रस्थापयामास ।
 
१७८. आदौ मयैवायमदीपि नूनं न तद्दहेन्मामवहेलितोऽपि ।
इति भ्रमादङ्गुलिपर्वणापि स्पृश्येत नो दीप इवावनीपः ॥
 
इति विमृशद्भिः समन्ततः सामन्तैर्भयभ्रान्तचित्तैस्ततः प्रभृति स नृपतिः प्रतिपदं सिषेवे ।
 
१३१) तेन राज्ञा पूर्वोपकारकर्त्तुः श्रीमदुदयनस्याङ्गजः श्रीवाग्भटदेवनामा महामात्यश्चक्रे । आलिगनामा ज्यायान्प्रधानः, महं० उदयनदेवश्च ।
 
१३२) चाहडनामा कुमारः श्रीसिद्धराजप्रतिपन्नपुत्रः श्रीकुमारपालदेवस्याज्ञामवमन्यमानः
सपादलक्षीयभूपतेः पत्तिभावं बभार । तेन श्रीकुमारपालभूपालेन सह विग्रहं चिकीर्षुणा तत्रत्यं सकलमपि सामन्तलोकं लञ्चोपचारदानादिना स्वायत्तीकृत्य दुर्वारस्कन्धावारोपेतं
सपादलक्षक्षोणीपतिं सहादाय देशसीमान्तमागतः । अथ चौलुक्यचक्रवर्त्ती अभ्यमित्रीणतया
स्कन्धावारसमीपे निजं चमूसमूहं निवेशयामास । निर्णीते समरवासरे निष्कण्टके क्रियमाणे सीमनि सज्जीक्रियमाणायां चतुरङ्गसेनायां चउलिगनामा पट्टहस्तिनो हस्तिपकः कस्मिन्नप्यागसि नृपेणाक्रुश्यमाणः क्रोधादङ्कुशं तत्याज । अथ सामलनामाऽमात्रगुणपात्रं महामात्रो
दुकूलवसुदानपूर्वकं तत्पदे नियोजितः सन् राज्ञा, स कलहपञ्चानननामानमनेकपं प्रक्षरितं कृत्वा तदुपरि नृपासनं निवेश्य तत्र षट्त्रिंशदायुधानि नियोजयन्सकलकलाकलापसम्पूर्णः कलापके चरणौ नियोज्य स्वयमारूढवान् । तदासनस्थचौलुक्यभूपालोऽपि सङ्ग्रामाधिकृतपुरुषैरुत्थापनिकां कार्यमाणेषु सामन्तेषु चाहडकुमारभेदादाज्ञाभङ्गकारिषु -- इति सैन्यविप्लवमाकलय्य तं निषादिनमादिदेश । सम्मुखसेनायां सपादलक्षक्षितिपतिर्मतङ्गजछत्रसङ्केतादुपलक्ष्य विघटिते कटकबन्धे मयैवैकाकिना योद्धव्यमिति निर्णीय तेनाधोरणेन स्वं सिन्धुरं तत्सन्निधौ नेतुमादिशन्नपि तमपि तथाऽकुर्वाणं विलोक्य 'कथं त्वमपि विघटितोऽसी'त्यादिशंस्तेन विज्ञपयांचक्रे -- 'स्वामिन् ! कलहपञ्चाननो हस्ती सामलनामा हस्तिपकश्च द्वयं युगान्तेऽपि न विघटते, परं परस्मिन्कुम्भिकुम्भे चाहडनामाकुमारस्तारध्वनिरधिरूढोऽस्ति यस्य हक्कया हस्तिनोऽपि भज्यन्ते ।' अत उत्तरीयाञ्चलयुगलेन सिन्धुरश्रवणौ पिधाय स निजं गजं प्रतिगजेन समं संघट्टयामास । अथ चाहडः पूर्वमात्मसात्कृतं चउलिगनामानमारोहकं जानन् कृपाणिकापाणिः श्रीकुमारपालविनाशाशया, निजगजात्कलहपञ्चाननकुम्भे पदं ददानः तेन यत्रा पश्चात्कृते गजे स भूमीपतितस्तलवर्गीयपदातिभिरधारि । तदनु चौलुक्यभूपतिना श्रीमदानाकनामा सपादलक्षनृपः 'शस्त्रसज्जो भवे'त्यभिहितस्तन्मुखकमलं प्रति औचित्याच्छिलीमुखं व्यापारयन् 'प्रधानः
क्षत्रियोसी'ति सोपहासश्लाघया तं वञ्चयित्वा नाराचेन निर्भिद्य कुम्भीन्द्रकुम्भे पातयित्वा