This page has been fully proofread twice.

प्राह -- 'लोकोत्तराण्यस्याङ्गलक्षणानि । सार्वभौमोऽयं नृपतिर्भावी'ति । आजन्म दरिद्रोपद्रुततया
तां वाचं यथार्थाममन्यमानेन तेन क्षत्रियेणासम्भाव्यमेतदिति विज्ञप्ते, 'सं० ११९९ वर्षे कार्त्तिकवदि (BP सुदि) २ रवौ हस्तनक्षत्रे यदि भवतः पट्टाभिषेको न भवति तदाऽतःपरं निमित्तावलोकनसंन्यासः' इति पत्रकमालिख्यैकं मन्त्रिणेऽपरं तस्मै समार्पयत् । अथ स क्षत्रियस्तत्कलाकौशलचमत्कृतमानसः 'यद्यदः सत्यं तदा भवानेव नृपतिः, अहं तु त्वच्चरणरेणुः' इति
प्रतिश्रवं श्रावयन् 'किं नो नरकान्तराज्यलिप्सया भवतु, कृतज्ञेन भवता वाक्यमिदमविस्मरता
जिनशासनभक्तेन सततमेव भाव्यमि'ति तदनुशास्तिं शिरःशेखरीकृत्यापृच्छ्य च मन्त्रिणा सह
गृहं प्राप्तः । स्नानपानाशनादिभिः सत्कृतः यथायाचितं पाथेयं समर्प्य प्रस्थापितो मालवकदेशं
गतः । कुडङ्गेश्वरप्रासादे प्रशस्तिपट्टिकायाम् --
 
१७७. पुण्णे वाससहस्से सयम्मि वरिसाण नवनवइअअहिए । होही कुमरनरिन्दो तुह विक्कमराय ! सारिच्छो ॥
 
इमां गाथामालोक्य विस्मयापन्नमानसो गूर्जरनाथं सिद्धाधिपं परलोकगतमवगम्य ततः प्रत्यावृत्तो विलीनशम्बलस्तस्मिन्नपि नगरे कस्यापि विपणिनो विपणौऽशनानन्तरं तमेव बन्दीचकार । स तु व्याकुलतयाऽऽक्रन्दन्मिलिते नगरलोके द्वयोरपि निधनं निश्चित्य मम कृतकमूर्च्छां भवानपनयतु इत्यभिहितस्तेन मतिवैभवेन प्रत्युज्जीवितमन्यस्तत्तथा कृत्वा तस्मादुपायाद् व्यपेतोऽपायः श्रीमदणहिल्लपुरमुपेत्य निशि कान्दविकापणे धनाभावाद्भुक्ततदशनो भगिनीपते राजकुलश्रीकान्हडदेवस्य सदनमासाद्य राजमन्दिरादागतेन तेन पुरस्कृत्यान्तर्नीतः । सद्भोजनादिभिः सुहितीभूतः सुष्वाप ।
 
१२९) प्रातस्तेन भावुकेन स्वसैन्यं सन्नह्य नृपसौधमानीयाऽभिषेकपरीक्षानिमित्तं प्रथममेकः कुमारः पट्टे निवेशितः । तमुत्तरीयाञ्चलानप्यनावृण्वन्तमालोक्य तदपरो निवेशितः । ततस्तं योजितकरसम्पुटं वीक्ष्य तस्मिन्नप्यप्रमाणीकृते श्रीकान्हडदेवानुज्ञातः कुमारपालः संवृतवसन ऊर्द्ध्वं
पवनं गृह्णन् सिंहासने उपविश्य कृपाणं पाणिना कम्पयन् पुरोधसा कृतमङ्गलः पञ्चाशद्वर्षदेश्यः
सनिस्वाननिस्वनं श्रीमता कान्हडदेवेन पञ्चाङ्गचुम्बितभूतलं नमोऽकारि ।
 
१३०) स प्रौढतया देशान्तरपरिभ्रमणनैपुण्येन राज्यशास्तिं स्वयं कुर्वन् राजवृद्धानामरोचमानस्तैः सम्भूय व्यापादयितुं व्यवसितः । सान्धकारगोपुरेषु न्यस्तेषु घातकेषु प्राक्तनशुभकर्मणा प्रेरितेन केनाप्याप्तेन ज्ञापितवृत्तान्तस्तं प्रवेशं विहाय द्वारान्तरेण वप्रं प्रविश्य तानि प्रधानान्यन्तकपुरीं प्राहिणोत् । स भावुकमण्डलेश्वरः शालकसम्बन्धाद्राज्यस्थापनाचार्यत्वाच्च राज्ञो दुरवस्थामर्माणि जल्पति । पश्चाद्राज्ञोक्तं -- 'हे भावुक ! राजपाटिकायां सर्वावसरे च प्राक्तनदुरवस्थामर्मनर्म न भाषणीयं त्वया । अतः परमेवंविधं सभासमक्षं नो वाच्यं विजने तु यदृच्छया वाच्यमि'ति राज्ञोपरुद्ध उत्कटतयाऽवज्ञावशाच्च 'रे अनात्मज्ञ ! इदानीमेव पदौ