This page has been fully proofread twice.

[९. कुमारपालादिप्रबन्धः । ]
 
१२६) अथ परमार्हतश्रीकुमारपालप्रबन्धः प्रारभ्यते -- श्रीमदणहिलपुरपत्तने बृहति श्रीभीमदेवे साम्राज्यं प्रति पालयति, श्री भीमेश्वरस्य पुरे बकुलदेवीनाम्नी पण्याङ्गना पत्तनप्रसिद्धं गुणपात्रं रूपपात्रं च । तस्याः कुलयोषितोऽप्यतिशायिनीं प्राज्यमर्यादां नृपतिर्विमृश्य तद्वृत्तपरीक्षानिमित्तं सपादलक्षमूल्यां क्षुरिकां निजानुचरैस्तस्यै ग्रहणके दापयामास । औत्सुक्यात्तस्यामेव निशि बहिरावासे प्रस्थानलग्नमसाधयत् । नृपो वर्षद्वयं यावन्मालवकमण्डले विग्रहाग्रहात्तस्थौ । सा तु बकुलदेवी तद्दत्तग्रहणकप्रमाणेन तद्वर्षद्वयं परिहृतसर्वपुरुषा शीललीलयैव तस्थौ । निस्सीमपराक्रमो भीमस्तृतीये वर्षे स्वस्थानमागतो जनपरम्परया तस्यास्तां प्रवृत्तिमवगम्य तामन्तःपुरे न्यधात् । तदङ्गजो हरिपालदेवः, तत्सुतस्त्रिभुवनपालः, तत्पुत्रः कुमारपालदेवः । स तु अविदितधर्मोऽपि कृपापरः परनारीसहोदरश्च । स तु सामुद्रिकवेदिभिः 'भवदनन्तरमयं नृपो भविष्यती'ति सिद्धनृपो विज्ञप्तस्तस्मिन्हीनजातावित्यसहिष्णुतया विनाशावसरं सततमन्वेषयामास । स कुमारपालस्तं वृत्तान्तमीषद्विज्ञाय तस्मान्नृपतेः शङ्कमानमानसः तापसवेषेण निर्मितनानाविधदेशान्तरभ्रमणः कियन्त्यपि वर्षाण्यतिवाह्य पुनः पत्तनमागतः । क्वापि मठे तस्थौ ।
 
१२७) अथ श्रीकर्णदेवस्य श्राद्धावसरे श्रद्धालुतया निमन्त्रितेषु सर्वेष्वपि तपस्विषु श्रीसिद्धराजः प्रत्येकं तेषां तपस्विनां स्वयं पादौ प्रक्षालयन् कुमारपालनाम्नस्तपस्विनः कमलकोमलौ चरणौ करतलेन संस्पृश्य तदूर्द्ध्वरेखादिभिर्लक्षणै राज्यार्होऽयमिति निश्चलया दृशाऽपश्यत् । तदिङ्गितैस्तं
विरुद्धं बुध्यमानस्तदेव वेषपरावर्त्तेन काकनाशं नष्टः । आलिगनाम्नः कुलालस्यालये मृत्पात्राणामापाके रच्यमाने तदन्तर्निधाय तदानुपदिकेभ्यो राजपुरुषेभ्यो रक्षितः । स क्रमात्ततः सञ्चरन् तद्विलोकनाकुलेन राजलोकेन त्रासितः सन्निहितां दुर्गमां दुर्गभूमिमनवलोक्य क्वापि क्षेत्रे ध्वाङ्क्षरक्षकैः क्रियमाणच्छिन्नकण्टकिशाखिशाखानिचये समुपचीयमाने तं तदन्तर्निधाय तेषु स्वस्थानमागतेषु पदिकेन तत्रानीते पदे सर्वथा तत्रासम्भावनया कुन्ताग्रेण भेद्यमानेऽपि तस्मिंस्तमनासाद्य व्यावृत्ते राजसैन्ये, द्वितीयेऽहनि क्षेत्राधिकृतैस्ततः स्थानादुद्वृतः पुरतः क्वापि प्रातरान्तर्व्रजन् क्वापि तरुच्छायायां विश्रान्तः सन्, बिलान्मूषकं मुखेन रूप्यनाणकमाकर्षन्तं निभृततया विलोक्य, यावदेकविंशसंख्यानि दृष्ट्वा पुनस्तेभ्य एकं गृहीत्वा तस्मिन् बिलं प्रविष्टे पाश्चात्यानि तु सर्वाणि स गृहीत्वा यावन्निभृतीभवति तावत्स तान्यनवलोक्य तदर्त्त्या विपेदे । स तच्छोकव्याकुलितमानसश्चिरं परितप्य पुरतो व्रजन्, कयापीभ्यवध्वा श्वशुरगृहात्पितृगृहं व्रजन्त्या, पथि पाथेयाभावाद्दिनत्रयं क्षुत्क्षामकुक्षिर्भ्रातृवात्सल्यात्कर्पूरपरिमलशालिशालिकरम्बेण सुहितीचक्रे ।
 
१२८) तदनु स विविधानि देशान्तराणि परिभ्रमन् स्तम्भतीर्थे महं० श्रीउदयनपार्श्वे शम्बलं याचितुमागतः । तं पौषधशालास्थितमाकर्ण्य तत्रागते तस्मिन्नुदयनेन पृष्टः श्रीहेमचन्द्राचार्यः