This page has been fully proofread once and needs a second look.

प्रकाश: ]
 
कुमारपाला दिप्रबन्धः ।
 
[९. कुमारपालादिप्रबन्धः । ]
 

 
१२६) अथ परमार्हतश्रीकुमारपालप्रबन्धः' प्रारभ्यते -- श्रीमदणहिलपुरपत्तने बृहति श्री भीम-
देवे साम्राज्यं प्रति पालयति, श्री भीमेश्वरस्य पुरे बकुलदेवीनाम्नी पण्याङ्गना पत्तनप्रसिद्धं गुण-
पात्रं रूपपात्रं च । तस्याः' कुलयोषितोऽप्यतिशायिनीं प्राज्यमर्यादां नृपतिर्विमृश्य तद्वृत्तंपरी-
क्षानिमित्तं सपादलक्षमूल्यां क्षुरिकां निजानुचरैस्तस्यै ग्रहणके दापयामास । औत्सुक्यात्तस्या- 5
मेव निशि बहिरावासे प्रस्थानलग्नमसाधयत् । नृपो वर्षद्वयं यावन्मालवकमण्डले विग्रहाग्रहा-
त्तस्थौ । सा तु बकुलदेवी तद्दत्तग्रहणकप्रमाणेन तद्वर्षद्वयं परिहनहृतसर्वपुरुषा शीललीलयैव तस्थौ ।
निस्सीमपराक्रमो भीमस्तृतीये" वर्षे स्वस्थानमागतो जनपरम्परया तस्यास्तां प्रवृत्तिमवगम्य"
तामन्तः पुरे न्यधात् । तदङ्गजो हरिपालदेवः, तत्सुतस्त्रिभुवनपालः, तत्पुत्रः कुमारपालदेवः । स
तु अविदितधर्मोऽपि कृपापरः परनारीसहोदरश्च । स तु सामुद्रिकवेदिभिः 'भवदनन्तरमयं नृपो 10
भविष्यती'ति सिद्धनृपो विज्ञप्तस्तस्मिन्हीनजातावित्यसहिष्णुतया विनाशावसरं सततमन्वेषया-
मास । स कुमारपालस्तं वृत्तान्तमीषद्विज्ञाय तस्मान्नृपतेः शङ्कमानमानसः तापसवेषेण निर्मित-
नानाविध देशान्तर भ्रमणः कियन्त्यपि वर्षाण्यतिवाह्य पुनः पत्तनमागतः । क्वापि मठे" तस्थौ ।
 

 
१२७) अथ श्री कर्णदेवस्य श्राद्धावसरे श्रद्धालुया निमन्त्रितेषु सर्वेष्वपि तपम्स्विषु श्रीसिद्धराजः
प्रत्येकं तेषां तपखिस्विनां स्वयं पादौ प्रक्षालयन् कुमारपालनाम्नस्तपस्विनः कमलकोमलोलौ चरणौ कर 15
तलेन संस्पृश्य तद्दुदूर्द्ध्वरेखादिभिर्लक्षणेणै राज्याहांर्होऽयमिति निश्चलया दृशाऽपश्यत् । तदिङ्गितैस्तं

विरुद्धं बुध्यमानस्तदेव वेषपरावर्त्तेन काकनाशं नष्टः । आलिगनाम्नः कुलालस्यालये मृत्पात्राणा-
मापाके" रच्यमाने तदन्तर्निधाय तदानुपदि केभ्यो राजपुरुषेभ्यो " रक्षितः । स क्रमात्ततः सञ्चरन्
तद्विलोकनाकुलेन राजलोकेन त्रासितः सन्निहिनांतां दुर्ग मां दुर्गभूमिमनवलोक्य काक्वापि क्षेत्रे ध्वाङ्ग-
क्षरक्षकैः" क्रियमाणंच्छिन्नकण्ट किशाखिशान । निचये समुपचीयमाने तं तद्न्तर्निधाय तेषु स्वस्था - 20
नमागतेषु पदिकेन तत्रानीते पदे सर्वथा तत्रासम्भावनया कुन्ताग्रेण भेद्यमानेऽपि तस्मिमिंस्तमना-
साद्य व्यावृत्ते राजसैन्ये, द्वितीयेऽह्नि क्षेत्राधिकृतैस्ततः स्थानादुद्धृवृतः पुरतः काक्वापि प्रातरान्तर्व-
व्रजन् क्कावापि तरुच्छायायां विश्रान्तः सन्, बिलान्मूकं मुग्वेखेन रूप्यनाणकमाकर्षन्तं निभूततया"
भृततया विलोक्य, यावदेकविंशसंख्यानि दृष्ट्वा पुनस्तेभ्य एकं गृहीत्वा तस्मिन्" बिलं प्रविष्टे पाश्चात्यानि
तु सर्वाणि स गृहीत्वा यावन्निभृतीभवति तावत्स तान्यनवलोक्य तदर्ज्त्त्या विपेदे । स तच्छोक - 25
व्याकुलितमानसश्चिरं परितप्य पुरतो व्रजन्, कयापीभ्यवध्वा श्वशुरगृहात्पितृगृहं ब्व्रजन्त्या, पथि
पाथेयाभावाधिद्दिनत्रयं क्षुत्क्षामकुक्षिर्भ्रातृवात्सल्यात्कर्पूरपरिमलशालिशालिकरम्बेण सुहितीचक्रे ।
 

 
१२८) तदनु स विविधानि" देशान्तराणि परिभ्रमन्" स्तम्भतीर्थे महं० श्रीउदयनपार्श्वे शम्बलं
याचितुमागतः । तं पौषधशालास्थितमाकर्ण्य तत्रागते तस्मिन्नुदयनेन पृष्टः श्रीहेमचन्द्राचार्यः
 
1 P कुमारभूपालचरित्रं । 2 P श्रीभीमे । 3AD 'प्रति' नास्ति । 4 D चउलादेवी० । 5 AD पत्तने । 6 B
नास्ति । 7 D नास्ति । 8 P निशम्य । 3 B तद्वृत्तान्त
10 P 'तृतीये वर्षे' स्थाने 'कृती' । 11 P अवबुख्य ।
12 BP 'भ्रमण' नास्ति । 13 BP श्रीमदनादिभूपतेः अशठो मटे । 14 B मन्यमानः । 15 D पाके । 16 D नास्त्येत-
स्पदं । 17 AD क्षेत्ररक्षकैः । 18 B क्रियमाणे । 19 B समुच्चीय० । 20 BP स्थानभाजिषु । 21 D निभृतया दशा ।
22 AD नास्ति । 23 BP विविधान् देशान् । 24 BP ० भ्रम्य । 25 AD शालायामागत० ।