2023-12-09 05:52:01 by Bharadwajraki
This page has been fully proofread twice.
भवाम्भोधौ मज्जयिष्यतीति मया तु संन्यस्तसमस्तवित्तेन वित्तमेतदादाय पुनर्ददता लब्धादष्टगुणं पुण्यं लब्धमिति श्रेयः सञ्जगृहे ।'
॥ इति पापघटस्य प्रबन्धः ॥
१२४) अथ कदाचिन्मालवकमण्डलं विगृह्य स्वदेशनिवेशं प्रति प्रचलितः श्रीसिद्धाधिपोऽन्तराले स अप्रतिमल्लैर्भिल्लैर्निरुद्धमध्वानमवधार्य तस्मिन्वृत्तान्ते ज्ञाते सति मन्त्री सान्तूनामा प्रतिग्रामं प्रतिनगरं घोटकमुद्ग्राह्य प्रतिवृषं पर्याणानि विन्यस्य मेलितातिदलस्तद्बलेन भिल्लान्वित्रास्य श्रीसिद्धराजं सुखेन स्वदेशं समानीतवान् ।
॥ इति सान्तूमन्त्रिबुद्धिप्रबन्धः ॥
१२५) अथ कस्याञ्चिन्निशि द्वावकुण्ठौ वण्ठौ श्रीसिद्धनरेश्वरस्य चरणसंवाहनाव्यापृतौ तं
निद्रामुद्रितलोचनं विचिन्त्य, तदाद्यो निग्रहानुग्रहसमर्थं श्रीसिद्धराजं सेवकजनकल्पवृक्षं सर्वराजगुणनिलयं प्रशशंस । अपरस्त्वस्यापि भूपतेः प्राज्यराज्यप्रदं प्राक्तनं कर्मैव श्लाघितवान् ।
एवमाकर्णितेन राज्ञा तस्मिन्वृत्तान्ते तत्कर्मणः प्रशंसां विफलीकर्तुं स्वप्रशंसाकारिणः प्रेष्यस्यापरस्मिन्नहन्यऽनिवेदिततत्त्वस्य प्रसादलेखमार्पयत् -- 'यदस्मै वण्ठाय तुरङ्गमशतस्य सामन्तता देया' इत्यालिख्य तं महामात्यश्रीसान्तूपार्श्वे प्राहिणोत् । अथ स यावच्चन्द्रशालाया निःश्रेण्यामवरोहति तावत्प्रस्वलितपदः पृथिव्यां पतदीषदङ्गभङ्गमङ्गीकृतवान् । तत्पृष्ठानुगामिनाऽपरेण वण्ठेन किमेतदिति पृष्टस्तेन स्वस्वरूपे निवेदिते स मञ्चकन्यस्तो गृहं गत्वा तं प्रसादलेखमपरस्मै समर्पितवान् । तत्प्रमाणेन महामात्यस्तस्मै शततुरङ्गमसामन्ततां ददौ । अथानयोर्यथावद्वृत्तान्तेऽवधारिते नृपतिः कर्मैव बलीय इति तत्प्रतिमेने ।
१७०. नैवाकृतिः फलति नैव कुलं न शीलं विद्या न चापि मनुजेषु कृता न सेवा ।
पुण्यानि पूर्वतपसा किल सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥
॥ इति वण्ठकर्मप्राधान्यप्रबन्धः ॥
१७९. सो जयउ कूडबरडो तिहुयणमज्झम्मि जेसलनरिन्दो । छित्तूण रायवंसे इक्कं छत्तं कयं जेण ॥
१७२. महालयो महायात्रा महास्थानं महासरः । यत्कृतं सिद्धराजेन क्रियते तन्न केनचित् ॥
१९७३. मात्रयाप्यधिकं किञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥
१७४. मानं मुञ्च सरस्वति त्रिपथगे सौभाग्यभङ्गीस्त्यज रे कालिन्दि तवाफला कुटिलता रेवे रयस्त्यज्यताम् ।
श्री सिद्धेशकृपाणपाटितरिपुस्कन्धोच्छलच्छोणितस्रोतोजातनदीनवीनवनितारक्तोऽम्बुधिर्वर्त्तते ॥
१७५. श्रीमज्जैत्रमृगारिदेवनृपते सत्यं प्रयाणोत्सवे पानीयाशयशोषणैः करटतो वीरव्रणाकाङ्क्षया ।
स्वीयस्वीयपतेर्विनाशसमयं सञ्चिन्त्य चिन्तातुरा मत्सी रोदिति मक्षिका चइहसति ध्यायन्ति वामं स्त्रियः ॥

स्वीयस्वीयपतेर्विनाशसमयं सञ्चिन्त्य चिन्तातुरा मत्सी रोदिति मक्षिका च