This page has been fully proofread twice.

१२०) श्रीसिद्धराजेन मालवमण्डलाद्यशोवर्मा नृपतिर्निबध्यानीतः । अवसरे क्रियमाणे
सीलणाभिधानेन कौतुकिना 'बेडायां समुद्रो मग्न' इति तत्पृष्ठगायनेनापशब्दं ब्रूषे इति तर्जितो
बेडासमानायां गूर्जरधरित्र्यां मालवकनृपतिसमुद्रो मग्न इति विरोधालङ्कारमर्थापत्या परिहरन् प्रभोर्हेममयीं जिह्वां प्राप ।
 
॥ इति कौतुकीसीलणप्रबन्धः ॥
 
१२१) कदाचित्सिद्धराजस्य वाग्ग्मी कश्चित्सान्धिविग्रहिको जयचन्द्रनाम्ना कासिपुरीश्वरेण
श्रीमदणहिल्लपुरस्य प्रासादप्रपानिपानादिस्वरूपाणि पृच्छतेति दूषणमुक्तम् -- 'यत्सहस्रलिङ्गसरोवरवारि शिवनिर्माल्यतयाऽस्पृश्यतया सेवमानो लोकद्वयविरोधेन तत्र वास्तव्यो लोकः कथमुदितोदितप्रभावः स्याद् ? । सिद्धाधिपेन सहस्रलिङ्गसरः कारयताऽनुचितमिदमाचरितमि'ति तस्य नृपतेर्वचसाऽन्तः कुपितः स नृपं पप्रच्छ -- 'अस्यां वाणारस्यां कुतस्त्यं पयः पीयते ?' नृपेण 'त्रिपथगाजलमि'त्यभिहिते 'किं नाम सुरसरिन्नीरं शिवनिर्माल्यं न ? यतः शिवोत्तमाङ्गमेव गङ्गानिवासभूमिः ।'
 
॥ इति जयचन्द्रराज्ञां समं गुर्जरप्रधानस्योक्तिप्रत्युक्तिप्रबन्धः ॥
 
१२२) कस्मिन्नप्यवसरे कर्णाटविषयादागतेन सान्धिविग्रहिकेण श्रीमयणल्लदेव्या पितुर्जयकेशिराज्ञः कुशलोदन्ते पृष्टेऽश्रुमिश्रलोचन इति विज्ञपयामास -- 'स्वामिनि ! सुगृहीतनामा श्रीजयकेशिमहीमहीन्द्रोऽशनावसरे पञ्जरात्क्रीडाशुकमाकारयन्, तेन मार्जार इत्युच्चरिते नृपः परितो विलोक्य निजभोजनभाजनाधो भागवर्त्तिनमोतुमपश्यन्, "यदि तव विडालबालेन विनाशः
स्यात्तदाहं त्वया सहगमनं करवाणी"ति प्रतिज्ञाते स यावत्पञ्जरादुड्डीय तस्मिन्काञ्चनभाजने
निषीदति तावदकस्मात्तेन वृकदंशेन तं विनाशितमवलोक्य परित्यक्ताशनकवलः, उक्तियुक्तिवेदिना राजवर्गेण निषिद्ध्यमानोऽपि --
 
१६९. राज्यं यातु श्रियो यान्तु यान्तु प्राणा अपि क्षणात् । या मया स्वयमेवोक्ता वाचा मा यातु शाश्वती ॥
 
इतीष्टदैवतमिव तामेव गिरं जपंस्तेनैव शुकेन सह दारुनिचितां चितां विवेश ।' इति वाक्याकर्णनाच्छोकाम्भोधिमग्नां श्रीमयणल्लदेवीं विशेषधर्मोपदेशहस्तावलम्बनेन विद्वज्जनः समभ्युद्दधार ।
 
१२३) अथ पितुः श्रेयसे श्रीसोमेश्वरपत्तने यात्रां गता सती सा सती त्रिवेदीवेदिनं कमपि ब्राह्मणमाकार्य तदञ्जलौ जलन्यासावसरे 'यदि भवत्रयपातकं ददासि तदा आददामि नान्यथे'ति तद्वचनविशेषपरितोषभाक् गजाश्वकाञ्चनादिभिर्दानैर्युतं पापघटमाददौ । स च तत्सर्वं विप्रेभ्यो ददानः किमिति देव्या पृष्टः प्राह -- 'प्राक्तनपुण्योपचयादस्मिन् जन्मनि नृपप्रिया-नृपति-जननी भूत्वा लोकोत्तरैरेभिर्दानैः सुकृतैर्भावी भवोऽपि श्रेयस्कर इति विमृश्य भवत्रयपातकं मया जगृहे । भवत्या पापघटदाने उपक्रान्ते कश्चिदधमद्विजोऽपि पापघटं नीत्वा, स्वं भवतीं च