This page has been fully proofread once and needs a second look.

प्रकाशः ]
 
सिद्धराजादिप्रबन्धः ।
 
महाराजाधिराजः श्रीविभीषणो राजस्थापनाचार्यस्य रघुकुलतिलकस्य श्रीरामस्याभिरामगुणग्रा-
माभिरामस्य स्मरन्, ज्ञानमयेन चक्षुषा सम्प्रति चौलुक्यकुलतिलकश्री सिद्धराजावतारेऽवतीर्
णं स्वीयं स्वामिनमवधार्य -- "अकुण्ठोत्कण्ठायमानमानसोऽहं तत्र प्रणामकरणायागच्छामीति, किं
वा प्रभुर्मामन्त्रागमनेनानुग्रहीष्यती"ति विज्ञपयन्नौ प्रहितवान् । तन्निर्णयं श्रीमुखेन समादिशतु
देवः ।' ताभ्यामित्यभिहिते नृपतिः किञ्चिदन्तर्विचिन्त्य स तावेवं समादिशत् -- 'यद्वयमेव प्रफुल्ला- 5
यल्लकलहरीप्रेर्यमाणाः स्समये स्वयमेव विभीषणमिलनाय समेण्ष्यामः' इत्युदीर्य निजकण्ठशृङ्गा-
रकारिणमेकावलीहारं प्रतिप्राभृतं प्रसादीकृत्यै आपृच्छनावसरे' 'प्रभुणाहमन्यस्मिन्नपि प्रेष्यप्रे-
षणावसरे न विस्मारणीय' इति विशेषविज्ञप्तिं विधायान्तरिक्षमार्गेण तद्राक्षसद्वन्द्वं तिरोधत्ते ।

तदैव ते म्लेच्छप्रधानपुरूरुषा भयभ्रान्ताः स्वपौरुषमुत्सृज्य नृपपुरत आहूता भक्तिभरभासुराणि

वचांसि ब्रुवाणास्तद्राज्ञे समुचितमुपायनमुपनीय श्रीसिद्धराजेन व्यसृज्यन्तं
 
10
 

 
॥ इति म्लेच्छागमनिषेधप्रबन्धः ॥
 
35
 
18
 

 
१९९) अथानन्तरं कोल्लापुरनगरराज्ञः सभायां बन्दिनः श्रीसिद्धराजस्य कीर्तितिं वितन्वन्तः ।
'तदा वयं तथ्यं सिद्धराजं मन्यामहे यदा प्रत्यक्षमध्प्यस्माकं कमपि चमत्कारं दर्शयती 'त्येतद्ब्रुवा-
णेन [ तेन राज्ञा ते " ] पराभूतास्तत्स्वरूपं नृपतेर्विज्ञपयामासुः । अथ खास्वामिनि सभां निभालयति
तच्चित्तवेदनदिना केनापि नियोगिनाऽञ्जलिबन्धनपूर्वकं निजाभिप्राये प्रादुःक्रियमाणे राज्ञा रहसि 15
तत्कारणं पृष्टो नृपतेराशयं स्वयं विज्ञपयन् 'द्रव्यलक्षत्रयसाध्योऽयमर्थः' इति वाक्य विशेषमाह ।
तदैव दैवज्ञनिर्द्दिष्टे मुहूर्त्ते स नृपाल्लक्षत्रयमुपलभ्य वणिज्याकारो भूत्वा सर्वभाण्डानि सङ्गृह्य
सिद्धसङ्केतं" रत्नखचितं सुवर्णपादुकायुगलमतुलं योगदण्डं च मणिमयकुण्डलगुयुगलं च तद्विधयो
गपिशुनं योगपट्टं च चण्डांशुरोचिश्चन्द्रातकं सह नीत्वा" पन्थानमुल्लङ्घ्य कतिपयैरहोभिस्तत्र द-
त्तावासः, आसन्नायां दीपोत्सवनिशि तन्नगरराज्ञोऽवरोधे महालक्ष्मीदेव्याः सपर्यापर्याकुलतया " 20
तत्प्रासादमुपेयुषि स कृतक सिद्धपुरुषस्तेन सिद्धवेषेणालङ्कृतः, केनापि सद्भ्यस्तोत्पतनेन बर्बरेण
नरेणानुगम्यमानो देव्याः पीटेठेऽकस्मात्प्रादुरासीत् । देव्या रत्न॑सुवर्णकर्पूरमयीं सपर्यायां विरचयँ-
स्तदवरोधाय तद्विधानि बीटकानि ददानः श्रीसिद्धराजनामाङ्कितं सिद्धवेषं पूजाव्याजात्तत्र
नियोज्योत्पतनवशाद्बर्बरस्कन्धमधिरुह्य यथागतमगात् । निशावसानसमयेऽवरोधैः स विरो-
धिनृपतिस्तं वृत्तान्तं" ज्ञापितः सन् भयभ्रान्तो" नृपः स्वप्रधानपुरुषैस्तं प्राभृतं सिद्धाधिपतये 25

प्राहिणोत् । अथ तेन नियोगिना भाण्डादिक्रयविक्रमंयं संक्षिप्य 'ममागमनावधि नैतेषां प्रधानानां
दर्शनं देयमि'ति वेगवता पुरुषेण विज्ञपयामास । तदनु झगिति कतिपयैर्दिनेनैस्तत्र समुपेतः,
तत्ख
तत्स्वरूपं विज्ञप्तो नृपतिस्तेषां प्रधानानां तदुचितामावर्जनां चकार ।
 
32
 
24
 

 
॥ इति कोल्लापुरैप्रयरप्रबन्धः ॥
 
त्पदम् ।
 
1 B अकुण्ठोत्कण्ठाघटमानमानसः; P अकुण्ठोत्कण्ठितमानसः । 2 A सच देवमादिदेश ।
5 Doऽहमयमपि । 6P म्लेच्छप्रधानाः । 7 IB विसृजत् । 8 P 'अथ' इत्येव ।
10 D पुस्तक एवैते शब्दाः प्राप्यन्ते । 11B • निवेदिना; P० विदा; D तत्तत्ववेदिना ।
नास्ति 'स्वयं' । 14 D ० शङ्केव। 15 AB • चण्डातकं । 16 P गृहीत्वा । 17 D तत्पुरे ।
19 AD पूजार्थ । 20 AD सिद्धरूपः । 21 ABD रत्नमय० । 22 AD ऽवरोधैम्तं ।
24 P • भ्रान्तस्तं प्राभृतं; B • भ्रान्तः सुप्रधानैम्तं । 25 D • पुरराजप्रबन्धः ।
 
10
 
3 D कृतं । 4 ID नास्त्येत-
9 A कोल्लाकपुर; P कोलापुर ।
12 P अञ्जलिं बा
13 D
18 BP सम्प्राप्तायां ।
23 AD • नृपवृत्तान्तं ।