2023-12-08 07:13:01 by Bharadwajraki
This page has been fully proofread twice.
तेस्तस्य षण्णवतिराजगुणान् प्रशंसंस्तत्पार्श्वे च गूर्जराधीश्वरगुणदोषान् पृच्छन् 'श्रीसिद्धराजस्य
प्रजापालनपाण्डित्यं सेवकेष्वप्यतुल्यवात्सल्यत्वं चे'त्यादीन् गुणान् वर्णयंस्तेन कृत्रिमदोषे उद्घाटट्यमाने स 'अस्माकं मन्दभाग्यतया नृपतेरपुत्रतालक्षण एव दोषः' इत्यश्रूणि मुञ्चन्नृपतिं निःकैतववृत्या परितोषयामास । अथ प्रभातकाले सम्भूय सर्वेऽपि मिलिता नृपदर्शनोत्कण्ठिताः
सौधमध्यास्य प्रभोः प्रणामानन्तरं तदतुल्यपल्यङ्के निविष्टाः । आसनदाननियोगिभिः प्रदत्तेऽपि
पृथगासने तत्पर्यङ्कसौकुमार्यं करस्पर्शेन विचिन्त्य 'वयमिह सुखसुखेन निषण्णास्तिष्ठामः' इति
नृपे स्मितमुखाम्भोजे तस्थुः ।
॥ इति उञ्झावास्तव्यग्रामणीनां प्रबन्धः ॥
११७) अथ कदाचिज्झालाज्ञातीयमाङ्गूनामा क्षत्रियः श्रीसिद्धराजसेवार्थं सभाभां समागच्छन्
प्रत्यहं पाराचीद्वयं भूमौ निहत्योपविशति । उद्धरन् तद्द्वयमुत्तिष्ठति । तस्य च भोजने घृतपरिपूर्णः कुतुप एव व्यये याति । तस्य तु घृताभ्यक्तदाढिकानिर्मार्जने घृतषोडशोऽवशिष्यते । कदाचिद्वपुरपाटवे पथ्यावसरे पञ्चमाणकप्रमिर्तयवागूपथ्यप्रान्ते आयुर्वेदविदाऽमृतोदकमर्द्धाहारे
किमिति न पीतमुपालब्धः । यतः --
१६८. पिबेद्घटसहस्रं तु यावन्नाभ्युदितो रविः । उदिते तु सहस्रांशौ बिन्दुरेको घटायते ॥
रजन्याः पाश्चात्यघटिकाचतुष्टये सूर्यस्यानुदयावधि यत्पयः पीयते, जलयोगः क्रियते, तद्वज्रोदकम्, [तदमृतोदकं] सूर्योदये समुत्पन्ने निरन्नैः प्रातर्यदुदकं पीयते तद्विषम् । ततः बिन्दुरेकोऽपि घटशतायते । भोजनार्द्धे यज्जलं पीयते तदमृतम्, भोजनान्ते तत्कालपीतं पयः छत्रं छत्रोदकमिति भण्यते । तेन प्रोक्तं पुनः -- पूर्वान्नं भुक्तमर्द्धाहारं परिकल्प्य सम्प्रति पयः पीत्वा पुनरर्द्धाहारं करिष्यामी'त्युपक्रममाणस्तेनैव वैद्येन निषिद्धः । कदाचिद् नृपतिना निरायुधकारणं पृष्टः 'समयोचितं मे प्रहरणमि'ति विज्ञपयन्नऽन्यदा मज्जनावसरे हस्तिपकप्रेर्यमाणं हस्तिनमालोक्य
सन्निहितश्वानेन शुण्डादण्डे निहत्य मर्मस्थाननिपीडितस्य गजस्य पुच्छभागं गृह्णन् तदीयातुलेन
बलेनान्तस्त्रुटितस्य करटिन उत्तारिते हस्तिपके भूपतितः सोऽसुभिर्व्ययुज्यत । स तु गुर्जरदेशभूपाले पलायिते समायातम्लेच्छान् समरे स्वेच्छयोच्छेदयन् यत्र दिवं प्राप्तस्तत्र श्रीपत्तने माङ्गूस्थण्डिलमिति प्रसिद्धिः ।
॥ इति माङ्गूप्रबन्धः ॥
११८) अन्यदा म्लेच्छेशप्रधानेषु समायतेषु मध्यदेशादागतान् वेषकारकानाहूय रहस्यं किञ्चिदादिश्य विससर्ज । अथापरस्मिन्सायाह्नावसरे समागते प्रलयकालप्रचण्डपवनप्रादुर्भावे नृपः सुधर्मासधर्माणमास्थानीमास्थाय यावदवलोकते तावदन्तरिक्षादवतरन्तं मस्तकन्यस्तकाञ्चनेष्टिकायुगेन काञ्चनशोभां बिभ्राणं पलादयुगलमालोक्य भयभ्रान्ते समाजलोके नृपचरणपीठे तदुपायनं विमुच्य भूपीठलुठनपूर्वं प्रणिपत्येति विज्ञपयामास -- 'यदद्य देवतार्चनावसरे लङ्कानगर्यां
प्रजापालनपाण्डित्यं सेवकेष्वप्यतुल्यवात्सल्यत्वं चे'त्यादीन् गुणान् वर्णयंस्तेन कृत्रिमदोषे उद्घा
सौधमध्यास्य प्रभोः प्रणामानन्तरं तदतुल्यपल्यङ्के निविष्टाः । आसनदाननियोगिभिः प्रदत्तेऽपि
पृथगासने तत्पर्यङ्कसौकुमार्यं करस्पर्शेन विचिन्त्य 'वयमिह सुखसुखेन निषण्णास्तिष्ठामः' इति
नृपे स्मितमुखाम्भोजे तस्थुः ।
॥ इति उञ्झावास्तव्यग्रामणीनां प्रबन्धः ॥
११७) अथ कदाचिज्झालाज्ञातीयमाङ्गूनामा क्षत्रियः श्रीसिद्धराजसेवार्थं स
प्रत्यहं पाराचीद्वयं भूमौ निहत्योपविशति । उद्धरन् तद्द्वयमुत्तिष्ठति । तस्य च भोजने घृतपरिपूर्णः कुतुप एव व्यये याति । तस्य तु घृताभ्यक्तदाढिकानिर्मार्जने घृतषोडशोऽवशिष्यते । कदाचिद्वपुरपाटवे पथ्यावसरे पञ्चमाणकप्रमि