2023-12-08 06:45:12 by Bharadwajraki
This page has been fully proofread twice.
विपणिनमाकार्य 'निशि स्कन्धन्यस्तहस्तभारेण ग्रीवा बाधते' इत्यभिहितस्तत्कालोत्पन्नमतिर्विज्ञपयामास -- 'देव ! आसमुद्रान्तर्भूभारे स्कन्धाधिरूढे यदि स्वामिनः स्कन्धो न बाधते तदा तृणमात्रस्य निर्जीवस्य मम पण्याजीवस्य भारेण स्वामिनः का स्कन्धबाधे'ति तदीयौचित्यविज्ञपनेन प्रमोदवान्नृपः पारितोषिकं ददौ ।
॥ इति चणकविक्रयिवणिजः प्रबन्धः ॥
११३) अथान्यस्यां निशि नृपतिः कर्णमेरुप्रासादात्प्रेक्षणं प्रेक्ष्य प्रत्यावृत्तः कस्यापि व्यवहारिणो हर्म्ये बहून् प्रदीपानालोक्य किमेतदिति पृष्टः स लक्षप्रदीपांस्तान् विज्ञपयामास । असौ धन्यः स्वसौधमध्यमध्यास्य व्यतीतक्षणदाक्षणः, स धन्यमानी तं सदः समानीयेत्यादिदेश -- 'एतेषां सदा प्रदीपानां प्रज्वालनेन भवतः सदा प्रदीपनम्, तद्भवदीयवित्तस्य कियन्तो लक्षाः ?' इत्यभिहितः स विद्यमानांश्चतुरशीतिलक्षान्निवेदयामास । तदनु तदनुकम्पाकम्पमानमानसः स्वकोशात्षोडशलक्षान् प्रसादीकृत्य तत्सौधे कोटिध्वजमध्यारोपयामास ।
॥ इति षोडशलक्षप्रसादप्रबन्धः ॥
११४) अथान्यस्मिन्नवसरे राज्ञा वालाकदेशदुर्गभूमौ सिंहपुरमिति ब्राह्मणानामग्रहारः स्थापितः । तच्छासने षडुत्तरशतं ग्रामाः । अथ श्रीसिद्धराजः कदाचित् सिंहभीतैर्विप्रैर्देशमध्यनिवासं याचितः साभ्रमतीतीरवर्तिनं आसांबिलीग्रामं तेभ्यो ददौ । तथा तेषां सिंहपुराद्धान्यान्यादाय गच्छतामागच्छतां च दाणमोक्षं चकार ।
११५) अथ राज्ञा सिद्धराजेन मालवकं प्रति कृतप्रयाणेन वाराहीग्रामपरिसरमाश्रित्य तदीयान्
पट्टकिलानाहूय तच्चातुर्यपरीक्षाकृते निजां प्रधानां राजवाहनसेजवालीं स्थापनिकार्थं समर्पयत । अथ नृपतौ पुरतः प्रयाते तैः सर्वैरपि सम्भूय तदङ्गानि प्रत्येकं विदार्य यथोचितं सर्वेऽपि स्वस्वसौधे निदधिरे । अथ दिग्यात्राप्रत्यावृत्तो नृपस्तां स्थापनिकां तेभ्यो याचमानस्तढ्ढौकितानि भिन्नानि तदङ्गानि पश्यन् सविस्मयं किमेतदित्यादिशंस्तैर्विज्ञपयांचक्रे -- 'स्वामिन् ! एकः कोऽप्यस्य वस्तुनो गोपनविधौ न प्रभूष्णुः । मलिम्लुचानलादीनां कदाचिदपाये सञ्जायमाने सति कः प्रभोरुत्तरं कर्तेति विमृश्यैतदस्माभिर्व्यवसितम् ।' तदा राजा विस्मयस्मेरमनास्तेषां ब्रूच इति बिरुदं ददौ ।
॥ इति वाराहीय-ब्रूचप्रबन्धः ॥
११६) अथ कदाचिच्छ्रीजयसिंहदेवो नृपतिर्मालवकं विजित्य प्रत्यावृत्त उञ्झाग्रामे निवेशितस्कन्धावारस्तैर्ग्रामीणैः प्रतिपन्नमातुलैर्दुग्धपरिपूर्णाऽऽवाहादिभिरुचितैः परितोष्यमाणस्तस्यामेव निशि गुप्तवृत्त्या तद्दुःखसुग्वखजिज्ञासुः कस्यापि ग्रामण्यो गृहे गतः । गोदोहादिव्याकुलतायामपि तेन 'कस्त्वम् ?' इति पृष्टः 'श्रीसोमेश्वरस्य कार्पटिकोऽहं महाराष्ट्रदेशवास्तव्य' इति तस्मै न्यवेदयत् । तेन च नृपतेः पार्श्वे महाराष्ट्रदेशस्य तन्महाराजस्य च गुणदोषवृत्तान्ते पृच्छ्यमाने स नृप-
॥ इति चणकविक्रयिवणिजः प्रबन्धः ॥
११३) अथान्यस्यां निशि नृपतिः कर्णमेरुप्रासादात्प्रेक्षणं प्रेक्ष्य प्रत्यावृत्तः कस्यापि व्यवहारिणो हर्म्ये बहून् प्रदीपानालोक्य किमेतदिति पृष्टः स लक्षप्रदीपांस्तान् विज्ञपयामास । असौ धन्यः स्वसौधमध्यमध्यास्य व्यतीतक्षणदाक्षणः, स धन्यमानी तं सदः समानीयेत्यादिदेश -- 'एतेषां सदा प्रदीपानां प्रज्वालनेन भवतः सदा प्रदीपनम्, तद्भवदीयवित्तस्य कियन्तो लक्षाः ?' इत्यभिहितः स विद्यमानांश्चतुरशीतिलक्षान्निवेदयामास । तदनु तदनुकम्पाकम्पमानमानसः स्वकोशात्षोडशलक्षान् प्रसादीकृत्य तत्सौधे कोटिध्वजमध्यारोपयामास ।
॥ इति षोडशलक्षप्रसादप्रबन्धः ॥
११४) अथान्यस्मिन्नवसरे राज्ञा वालाकदेशदुर्गभूमौ सिंहपुरमिति ब्राह्मणानामग्रहारः स्थापितः । तच्छासने षडुत्तरशतं ग्रामाः । अथ श्रीसिद्धराजः कदाचित् सिंहभीतैर्विप्रैर्देशमध्यनिवासं याचितः साभ्रमतीतीरवर्तिनं आसांबिलीग्रामं तेभ्यो ददौ । तथा तेषां सिंहपुराद्धान्यान्यादाय गच्छतामागच्छतां च दाणमोक्षं चकार ।
११५) अथ राज्ञा सिद्धराजेन मालवकं प्रति कृतप्रयाणेन वाराहीग्रामपरिसरमाश्रित्य तदीयान्
पट्टकिलानाहूय तच्चातुर्यपरीक्षाकृते निजां प्रधानां राजवाहनसेजवालीं स्थापनिकार्थं समर्पयत । अथ नृपतौ पुरतः प्रयाते तैः सर्वैरपि सम्भूय तदङ्गानि प्रत्येकं विदार्य यथोचितं सर्वेऽपि स्वस्वसौधे निदधिरे । अथ दिग्यात्राप्रत्यावृत्तो नृपस्तां स्थापनिकां तेभ्यो याचमानस्तढ्ढौकितानि भिन्नानि तदङ्गानि पश्यन् सविस्मयं किमेतदित्यादिशंस्तैर्विज्ञपयांचक्रे -- 'स्वामिन् ! एकः कोऽप्यस्य वस्तुनो गोपनविधौ न प्रभूष्णुः । मलिम्लुचानलादीनां कदाचिदपाये सञ्जायमाने सति कः प्रभोरुत्तरं कर्तेति विमृश्यैतदस्माभिर्व्यवसितम् ।' तदा राजा विस्मयस्मेरमनास्तेषां ब्रूच इति बिरुदं ददौ ।
॥ इति वाराहीय-ब्रूचप्रबन्धः ॥
११६) अथ कदाचिच्छ्रीजयसिंहदेवो नृपतिर्मालवकं विजित्य प्रत्यावृत्त उञ्झाग्रामे निवेशितस्कन्धावारस्तैर्ग्रामीणैः प्रतिपन्नमातुलैर्दुग्धपरिपूर्णाऽऽवाहादिभिरुचितैः परितोष्यमाणस्तस्यामेव निशि गुप्तवृत्त्या तद्दुःखसु