This page has been fully proofread once and needs a second look.

प्रविपणिनमाकाशः ]
 
सिद्धराजादिप्रबन्धः ।
 
विपणिनमाकार्य'
र्य 'निशि स्कन्धन्यस्तहस्तभारेण ग्रीवा बाते' इत्यभिहितस्तत्कालोत्पन्नमति-
र्विज्ञपयामास -- 'देव ! आसमुद्रान्तर्भूभारे स्कन्धाधिरूढे यदि स्वामिनः स्कन्धो न बाधते तदा
तृणमात्रस्य निर्जीवस्य मम पण्याजीवस्य भारेण स्वामिनः का स्कन्धयाबाधे'ति तदीयौचित्य विज्ञप-
नेन प्रमोदवान्नृपः पारितोषिकं ददौ ।
 

 
॥ इति चणकविक्रयिवणिजः' प्रबन्धः ॥
 

 
११३) अथान्यस्यां निशि नृपतिः कर्णमेरुप्रासादात्प्रेक्षणं प्रेक्ष्य प्रत्यावृत्तः कस्यापि व्यवहा-
रिणो हर्म्ये बहून् प्रदीपानालोक्य किमेतदिति पृष्टः स लक्षप्रदीपांस्तान् विज्ञपयामास । असौ
धन्यः 'खस्वसौधमध्यमध्यास्य व्यतीतक्षणाणदाक्षणः, स धन्यमानी तं सदः समानीयेत्यादिदेश -
- 'एतेषां सदा प्रदीपानां प्रज्वालनेन भवतः सदा प्रदीपनम्, तद्भवदीयवित्तस्य कियन्तो लक्षाः ?
' इत्यभिहितः स विद्यमानांश्चतुरशीतिलक्षान्निवेदयामास । तदनु तदनुकम्पाकम्पमानमानसः 10
स्वकोशात्षोडशलक्षान् प्रसादीकृत्य तत्सौधे कोटिध्वजमध्यारोपयामास ।
 

 
॥ इति षोडशलक्षप्रसादप्रबन्धः ॥
 

 
११४) अथान्यस्मिन्नवसरे राज्ञा' वालाकदेशदुर्गभूमौ सिंहपुरमिति ब्राह्मणानामग्रहारः
स्थापितः । तच्छासने षडुत्तरशतं ग्रामाः । अथ श्रीसिद्धराजः कदाचित् सिंह भीतैर्विमैप्रैर्देशमध्य-
निवासं याचितः साभ्रमतीतीरवर्तिनं आसांबिलीग्रामं तेभ्यो ददौ । तथा तेषां सिंहपुराद्धान्या 15
न्यादाय गच्छतामागच्छतां" च दाणमोक्षं चकार ।
 

 
११५) अथ राज्ञा " सिद्धराजेन मालवकं प्रति कृतप्रयाणेन वाराहीग्रामपरिसरमाश्रित्य तदीयान्
पह

पट्ट
किलानाहूय तच्चातुर्यपरीक्षाकृते निजां प्रधानां राजवाहनसेजवालीं स्थापनिकार्थ समर्पयत"थं समर्पयत
अथ नृपतौ पुरतः प्रयाते तैः सर्वैरपि सम्भूय तदङ्गानि प्रत्येकं विदार्य यथोचितं" सर्वेऽपि खख-
स्वस्वसौधे निदधिरं"रे । अथ दिग्यात्रीराप्रत्यावृत्तो नृपस्तां स्थापनिकां तेभ्यो याचमानस्तढ्ढौकितानि " भि-20
न्नानि तदङ्गानि पश्यन् सविस्मयं किमेतदित्यादि शंस्तैर्विज्ञपयांचक्रे -- 'खास्वामिन् ! एकः कोऽप्यस्य व
स्तुनो गोपनविधौ न प्रभूष्णुः । मलिम्लुचानलादीनां" कदाचिदपाये सञ्जायमाने सति कः प्रभोक-
रुत्तरं कर्तेति विमृश्यैतदस्माभिर्व्यवसितम् ।' तदा राजा विस्मयस्मेरमनास्तेषां ब्रूच इति बिरुदं ददौ ।

 
॥ इति वाराहीय-ब्रूचप्रबन्धः ॥
 

 
११६) अथ कदाचिच्छ्रीजयसिंहदेवो नृपतिर्मालवकं विजित्य प्रत्यावृत्त उञ्झाग्रामे निवेशित-25
स्कन्धावारस्तैर्ग्रामीणैः प्रतिपन्नमातुलैर्दुग्धपरिपूर्णाऽऽवाहादिभिरुचितैः परितोष्यमाणस्तस्यामेव
निशि गुप्तवृत्त्या तद्दुःखसुग्वजिज्ञासुः कस्यापि ग्रामण्यो" गृहे गतः । गोदोहादिव्याकुलतायामपि
तेन 'कस्त्वम् ?' इति पृष्टः 'श्री सोमेश्वरस्य कार्पटिकोऽहं महाराष्ट्र देशवास्तव्य' इति तस्मै न्यवेद-
यत् । तेन च नृपतेः पार्श्वे महाराष्ट्रदेशस्य तन्महाराजस्य च गुणदोषवृत्तान्ते पृच्छ्यमाने स नृप-
1 P वणिजमाहूय । 2 AD ● भिहिते । 3 BP • धराभारे । 4 P विक्रयवणिकू । + एतदन्तर्गता पंक्तिः लोकरूपा
प्रतिभाति परमुत्तरार्द्ध लोकलक्षणाभावात् गद्यरूपा एवेयमिति । 5P विहाय 'प्रसाद' नाम्नि । 6 B प्रस्तावे । 7 13 राजा ।
8 AI) कदाचिद्वालाक देशे। + एतद्वाक्यस्थाने P प्रतौ ' अथ कदाचिद्वालाकदेशदुर्गपर्वतभूमौ एतादृशं वाक्यं विद्यते । 9 D
सिंहनादेर्भीतः । 10 B असांबिली; D आशांबिली; Da-b आशाम्बली । 11 P विहाय 'तथा' नाम्ति । 12 BD तेषां च ।
13P सर्वधान्यानि । 14 B नास्ति 'आगच्छतां' । § एतदन्तर्गतं वर्णनं A आदर्श सर्वथाऽनुपलब्धम् । 15 BP नास्ति ।
16 A समर्पिता । 17 ID यथावांछितं । 18 P विहाय नास्त्यन्यत्र । 19 BP निदधुः । 20 D यदा । 21 AD तड़ौकि-
तमि०
१०। 22 D ●म्लुवादिभ्यः । 23 D ग्रामीणस्य ।