This page has been fully proofread twice.

परीक्ष्य तल्लोभात्तं मूल्येन क्रीत्वा मणिकारपार्श्वात्तमुत्तेजितं निर्माप्य श्रीसिद्धराजस्य मुकुटघटनाप्रस्तावे लक्षमूल्यद्रव्येण तं नृपायैव ददौ । तेन नीवीधनेन मञ्जिष्ठास्थानकानि कदाचिदागतानि क्रीत्वा तद्विक्रियावसरे सांयात्रिकैर्जलचोरभयात्तदन्तर्निहिताः काञ्चनकम्बिकाः पश्यन् सर्वेभ्यः स्थानकेभ्यस्ताः सञ्जग्राह । तदनन्तरं सर्वनगरमुख्यः श्रीसिद्धराजमान्यो जिनशासनप्रभावकः श्रावकः प्रतिदिनं प्रतिवर्षं यदृच्छया जैनमुनिभ्योऽन्नवस्त्रादि ददानो गुप्तवृत्त्या नव्यानि धर्मस्थानानि जीर्णानि च स्वप्रशस्तिरहितानि स्वदेशेषु विदेशेषु च समुद्दधार ।
 
१६७. वल्लीच्छन्नद्रुम इव मृत्स्नाच्छादितसमस्तबीजमिव । प्रायः प्रच्छन्नकृतं सुकृतं शतशाखतामेति ॥
 
॥ इति वसाह आभडप्रबन्धः ॥
 
१११) अथान्यस्मिन्नवसरे श्रीसिद्धराजः संसारसागरं तितीर्षुः प्रत्येकं सर्वदेशेषु सर्वदर्शनेषु देवतत्त्वधर्मतत्त्वपात्रतत्त्वजिज्ञासया पृच्छ्यमानेषु निजस्तुतिपरनिन्दापरेषु सन्देहदोलाधिरूढमानसः श्रीहेमाचार्यमाकार्य विचार्य कार्यं पप्रच्छ । आचार्यैस्तु चतुर्दशविद्यास्थानरहस्यं विमृश्येति पौराणिकनिर्णयो वक्तुमारेभे -- 'यत्पुरा कश्चिद् व्यवहारी पूर्वपरिणीतां पत्नीं परित्यज्य संग्रहणीसात्कृतसर्वस्वः सदैव पूर्वपक्ष्या पतिवशीकरणाय तद्वेदिभ्यः कार्मणकर्मणि पृच्छ्यमाने
कश्चिद्गौडदेशीयो 'रश्मिनियन्त्रितं तव पतिं करोमी'त्युक्त्वा किञ्चिदचिन्त्यवीर्यं भेषजमुपनीय
भोजनान्तर्देयमिति भाषमाणः स गतः । कियद्दिनान्ते समागते क्षयाहनि तस्मिंस्तथा कृते स प्रत्यक्षां वृषभतां प्राप । सा च तत्प्रतीकारमनवबुध्यमाना विश्वविश्वाक्रोशान्सहमाना निजं दुश्चरितं शोचन्ती कदाचिन्मध्यंदिने दिनेश्वरकठोरतरनिकरप्रसरतप्यमानापि शाड्वलभूमिषु तं पतिं वृषभरूपं चारयन्ती, कस्यापि तरोर्मूले विश्रान्ता निर्भरं विलपन्ती, आलापं नभस्यकस्माच्छुश्राव । तदा तत्रागतो विमानाधिरूढः पशुपतिर्भवान्या तद्दुःखकारणं पृष्टो यथावस्थितं निवेद्य तस्यैव तरोश्छायायां पुंस्त्वनिबन्धनमौषधं तन्निर्बन्धादादिश्य तिरोदधे । सा तदनु तदीयां छायां रेखाङ्कितां निर्माय तन्मध्यवर्त्तिन औषधाङ्कुरानुच्छेद्य वृषभवदने क्षिपन्ती, तेनाप्यज्ञातस्वरूपेणौषधाङ्कुरेण वदनन्यस्तेन स वृषभो मनुष्यतां प्राप । यथा तदज्ञानस्वरूपोऽपि भेषजाङ्कुरः समीहितकार्यसिद्धिं चकार; तथा कलियुगे मोहात्तदपि तिरोहितं पात्रपरिज्ञानं सभक्तिकं सर्वदर्शनाराधनेनाऽविदितस्वरूपमपि मुक्तिप्रदं भवतीति निर्णयः । इति हेमचन्द्राचार्यैः सर्वदर्शनसम्मते निवेदिते सति श्रीसिद्धराजः सर्वधर्मानारराध ।
 
॥ इति सर्वदर्शनमान्यताप्रबन्धः ॥
 
११२) अथान्यदा निशि कर्णमेरुप्रासादे नृपतिर्नाटकं विलोकयन् केनापि चणकविक्रयकारिणा
वणिगमात्रेण स्कन्धे न्यस्तहस्तः तल्लीलायितेन चित्रीयमाणमानसः भूयो भूयस्तद्दीयमानं सकर्पूरबीटकं परितोषितो गृह्णन् नाटकविसर्जनावसरेऽनुचरैस्तद्गेहादि सम्यगवगम्य सौधमासाद्य
सुष्वाप । प्रत्यूषे भूपः कृतप्राभातिककृत्यः सर्वावसरेऽलङ्कृतसभामण्डपस्तं चणकविक्रयकारिणं