This page has been fully proofread once and needs a second look.

मां प्रति कृपा कार्या । तथा चानुष्ठितेऽस्तं गते सवितर्यसावरिमर्दनः स्वसैन्य-
परिवारस्तमेव न्यग्रोधमधिरूढः । न च तत्र कंचिदपि वायसमपश्यत् । शिख-
रगतश्चाचिन्तयत् । क्व ते शत्रवो गता इति । अथ चिरंजीवी क्षितितलगतस्तै-
रदृष्ट एवं चिन्तयामास । यद्येते शत्रवोऽनुपलब्धवृत्तान्ता एवापयान्ति ततो
मया किं कृतं भवति । उक्तं च
 
अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम् ।
आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ ५८ ॥
 
तद्वरमनारम्भो न त्वारब्धविनाशः कृतः । यतोऽहमेषां स्वशब्दश्रावणादात्मानं
दर्शयामीति । एवमनुचिन्त्य चिरंजीवी मन्दं मन्दं शब्दमकरोत् । तत् संनिकृ-
ष्टस्थाः श्रुत्वोलूका वायसस्यायं शब्द इत्यवधार्य स्वामिने निवेदयन्ति स्म । तच्च
श्रुत्वा कौतुकपरोऽरिमर्दनोऽवतीर्य व्यक्तं साधयित्वा सचिवानब्रवीत् । पृच्छ्यतां
कस्त्वमिति । अथ तेनोक्तम् । अहं चिरंजीवीति । तच्छ्रुत्वोलूकराज:जः सविस्मय
आह । अयं तस्य वायसराजस्याभिमतो मुख्यो मन्त्रधरः । कथमिमां दशामुप-
गतोऽस्ति । स एवं पृष्टस्तमाह । स्वामिन् श्रूयताम् । अस्ति किञ्चित् समुत्सादनं
कृत्वा युष्मास्वपयातेषु मेघवर्णो हतशेषान् सैनिकान् दृष्ट्वा परं विषादमगमत् ।
मन्त्रिभिः सह संप्रधारितवान् । किं बहुना त्वद्विनाशाय प्रारब्धमिति । ततो
मयाभिहितम् । बलवन्तस्ते हीना वयं तत्सर्वथा प्रणतिरेव तेभ्यो अस्माकं शिवा-
येति । उक्तं च
 
बलीयसा हीनबलो विरोधं
न भूतिकामो मनसापि कुर्यात् ।
न वञ्च्यते वेतसवृत्तिरर्थै-
रेकान्तनाशोऽस्ति पतंगवृत्ते:तेः ॥ ५९ ॥
 
ततोऽयं शत्रुपक्षपातीत्युक्त्वाहमिमामवस्थां निरपेक्षैर्वायसैर्नीतः । तच्च <error>श्रुत्वारि</error><fix>श्रुत्वारि-</fix>
मर्दनः पितृपैतामहैः स्वमन्त्रिभिः सहावधारितवान् रक्ताक्षक्रूराक्षदीप्ताक्षवक्र-
नासप्राकारकर्णैः । तत्रादौ रक्ताक्षं पृष्टवान् । भद्र किमेवं गते कार्यमिति । <error>सो</error><fix>सो-</fix>
ऽब्रवीत् । किमत्र चिन्त्यते । अविचार्य हन्तव्योऽयम् । यत्कारणम् ।