This page has not been fully proofread.

८६
 
संधिविग्रहम्
 
[ तन्त्रम् ३.
 
मां प्रति कृपा कार्या । तथा चानुष्ठितेऽस्तं गते सवितर्यसावरिमर्दनः स्वसैन्य-
परिवारस्तमेव न्यग्रोधमधिरूढः । न च तव कंचिदपि वायसमपश्यत । शिख-
रगतश्चाचिन्तयत् । व ते शलवो गता इति । अथ चिरंजीवी क्षितितलगतभ्तै-
रदृष्ट एवं चिन्तयामास । यद्येते शलवोऽनुपलब्धवृत्तान्ता एवापयान्ति ततो
मया किं कृतं भवति । उक्तं च
 
अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणम् ।
आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ ५८ ॥
 
तद्वरमनारम्भो न त्वारब्धविनाशः कृतः । यतोऽहमेषां स्वशदश्रावणादात्मानं
दर्शयामीति । एवमनुचिन्त्य चिरंजीवी मन्दं मन्दं शब्दमकरोत् । तत् संनिक-
टस्था: श्रुत्वोलूका वायसस्यायं शब्द इत्यवधार्य स्वामिने निवेदयन्ति स्म । तब
श्रुत्वा कौतुकपरोऽरिमोऽवसीर्य व्यक्तं साधयित्वा सचिवानगवीम् । पृच्छयतां
कस्त्वमिति । अथ तेनाक्तम् । अहं चिरंजीवीति । राज: भविम्मय
 
आह । अयं तस्य वायसराजस्याभिमतो मुख्यो मन्त्रधरः । कथमिमां दशासुप-
गतोऽस्ति । स एवं पृष्टस्तमाह । स्वामिन् श्रूयताम् । अस्ति चित् समुत्सादनं
कृत्वा युष्मास्वपयातेषु मेघवर्णो हतशेषान् सैनिकाम् दृष्ट्वा परं विषादमगमन ।
मन्त्रिभिः सह संप्रधारितवान् । किं बहुना त्वद्विनाशाय प्रारम्यमिति । ततो
मयाभिहितम् । बलवन्तस्ते हीना वयं तत्सर्वथा प्रणतिरेव तेभ्यो इम्माकं शिवा-
येति । उक्तं च
 
बलीयसा हीनवलो विरोधं
 
न भूतिकामो मनसापि कुर्यात ।
न वञ्च्यते वेतसवृत्तिर-
रेकान्तनाशोऽस्ति पतंगवृत्ते: ॥ ५९ ॥
 
ततोऽयं शत्रुपक्षपातीत्युक्त्वाह मिमामवस्थां निरपेक्षैर्वायत
मर्दनः पितृपतामहै: स्वमन्त्रिाभ: सहावधारितवान् रफाक्षराक्षीप्रावक-
नासप्राकारकर्णैः । तलादौ रक्ताक्षं पृष्टवान। भद्र किमेव गते कार्यमिति मो
ऽब्रवीत् । किमल चिन्त्यते । अविचार्य हन्तव्योऽयम् । यत्कारणम