This page has been fully proofread once and needs a second look.

अथ ब्राह्मणधूर्तकथा नाम पञ्चमी कथा ।
 
अस्ति कश्चिद् ब्राह्मणो ग्रामान्तरात् पशुबन्धननिमित्तं छागमादाय
स्कन्धे कृत्वा स्ववेश्मनि गच्छन् पथि धूर्तैर्दृष्टः। तैश्चिन्तितम् । ब्राह्मणोऽयं छागं
त्याज्यतामिति । ततस्तस्यैवाग्रतः कृतसंकल्पैर्मार्गाभिमुख्येनागच्छद्भिरेकद्वित्रि-
प्रविभागेन स्थितम् । यस्तु तेषामग्रगस्तेन ब्राह्मणोऽभिहितः । किमित्ययं कुक्कु-
रस्त्वया स्कन्धेनोह्यते । अथवा श्वापदव्यापादने कुशल इति । एवमुक्त्वाप-
क्रान्तः । ब्राह्मणश्चिन्तयामास । किमनेन दुरात्मनाभिहितम् । कथमहं श्वानं
स्कन्धे करिष्यामि । यावदन्यौ द्वौ धूर्तौ ताभ्यामपि ब्राह्मणोऽभिहितः । ब्रह्मन्
किमिदमसदृशं व्यवसितं यज्ञोपवीतमक्षमाला कमण्डलुस्त्रिपुण्ड्रकं स्कन्धे च
श्वा विधुरम् । अथवा शशमृगसूकरव्यापादने नूनमयं कुशल इति । एवमु-
क्त्वा तावतिक्रान्तौ । ब्राह्मणस्तु जिज्ञासया छागं भूमौ निधाय सुनिपुणं
कर्णशृङ्गवृषणपुच्छादीनवयवान् परामृश्याचिन्तयत् । मूर्खास्ते कथमिमं श्वान-
मिवावधारयन्ति । पुनः स्कन्धेनादाय प्रायात् । अथान्यैस्त्रिभिरभिहितो ब्राह्मणः ।
न त्वया स्प्रष्टव्या वयमित्येकपार्श्वेन गम्यतां यत्कारणं शुचिरसि लिङ्गमात्रेण
ब्राह्मण श्वसंपर्कान्नूनं व्याधो भविष्यसि । इत्युक्त्वापक्रान्ताः । अथासौ ब्राह्मण-
श्चिन्तयामास । कथं ममेन्द्रियाणि विकलानि । अथवा यतो बहुत्वं तत्प्रमाणम् ।
दृश्यन्ते च लोके विपरीतानि । कदाचिदयं श्वरूपी राक्षसः स्यात् । किमस्य
शक्यं श्वरूपं कर्तुमिति । एवं संप्रधार्य छागं त्यक्त्वा स्नात्वा गृहं ययौ । धूर्तैश्च
स छागो गृहीत्वा भक्षितः ।
 
इति पञ्चमी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । बहवोऽबलवन्तश्चेति । तद्देव । अस्ति मे किंचिद्व-
क्तव्यम् । तच्चावधार्य यथोक्तमनुष्ठेयम् । सोऽब्रवीत् । तात । अथ किम् ।
चिरंजीव्याह । देव मां लुञ्चितपक्षं कृत्वातिनिष्ठुरवचनैर्निर्भर्त्स्य <flag>पूर्वहताना-
माहृतदधिरेणालिप्यास्यैव</flag> न्यग्रोधपादपस्याधस्तात् प्रक्षिप्यर्ष्यमूकपर्वते गम्य-
ताम् । तत्र सपरिवारस्तिष्ठ । यावदहं तान् सपनाञ् छास्त्रप्रणीतेन विधिना
<flag>दक्षिणाशामुखान्</flag> कृत्वा कृतार्थः पुनस्त्वत्सकाशमागच्छामि । न च त्वया