2023-02-21 16:55:08 by ambuda-bot
This page has not been fully proofread.
ब्राह्मण धूर्तकथा
अथ ब्राह्मण धूर्तकथा नाम पञ्चमी कथा ।
अस्ति कश्चिद् ब्राह्मणो मामान्तरात् पशुबन्धननिमित्तं छागमादाय
स्कन्धे कृत्वा स्ववेश्मनि गच्छन् पथि धूर्तेष्टः। तैचिन्तितम् । ब्राह्मणोऽयं छागं
त्याज्यतामिति । ततस्तस्यैवाप्रतः कृतसंकल्पैर्मार्गाभिमुख्येनागच्छद्भिरेकद्वित्रि-
प्रविभागेन स्थितम । यस्तु तेपामग्रगस्तेन ब्राह्मणोऽभिहितः । किमित्ययं कुकु
रस्त्वया स्कन्धेनोह्यते । अथवा श्वापदव्यापादने कुशल इति । एवमुक्त्वाप-
कान्तः । ब्राह्मणश्चिन्तयामास । किमनेन दुरात्मनाभिहितम् । कथमहं श्वानं
स्कन्धे करिष्यामि । याबद्न्यौ द्वौ धूर्ती ताभ्यामपि ब्राह्मणोऽभिहितः । ब्रह्मन्
किमिदमसदृशं व्यवसितं यज्ञोपवीतमक्षमाला कमण्डलुखिपुण्ड्रकं स्कन्धे च
श्वा विधुरम् । अथवा शशमृगसूकरव्यापादने नूनमयं कुशल इति । एवमु-
क्त्वा सावतिक्रान्तौ । ब्राह्मणस्तु जिज्ञासया छागं भूमौ निधाय सुनिपुणं
कर्णशृङ्गवृषणपुच्छादीनवयवान् पराभृश्याचिन्तयत् । मूर्खास्ते कथमिमं श्वान-
भिवावधारयन्ति । पुनः स्कन्धेनादाय प्रायात । अथान्यैस्त्रिभिरभिहितो ब्राह्मणः ।
न त्वया स्प्रष्टव्या वयमित्येकपार्श्वेन गम्यतां यत्कारणं शुचिरमि लिङ्गमावेण
ब्राह्मण श्वसंपर्कानून व्याधो भविष्यसि । इत्युक्त्वापक्रान्ताः । अथासौ ब्राह्मण-
चिन्तयामास । कथं ममेन्द्रियाणि विकलााने । अथवा यतो बहुत्वं तत्प्रमाणम् ।
दृश्यन्ते व लोके विपरीतानि । कदाचिदयं श्ररूपी राक्षसः म्यान । किमस्य
शक्यं श्वरूपं कर्तुमिति । एवं संप्रधार्य छागं त्यक्त्वा स्नात्वा गृहं ययौ । धूर्त
स छागो गृहीत्वा भक्षितः ।
कया ५ ]
८५
इति पञ्चमी कथा समाप्ता ।
अतोऽहं ब्रवीमि । बहवोऽबलवन्तश्चेति । तदेव । अस्ति मे किंचिद्र-
तव्यम् । तथावधार्य यथोक्तमनुष्ठेयम् । सोऽब्रवीत् । तात । अथ किम् ।
चिरंजीव्याह देव मां लुब्बितपक्षं कृत्वातिनिष्ठुरबचन निर्भय पूर्वहताना-
माहउदधिरेणालिप्यास्यैव न्योभपादपस्याभस्वात् प्रक्षिप्यर्थ्य मूकपर्वते गम्य-
ताम् । वन सपरिवारस्तिष्ठ । यावदहं तान् सपनाञ् छाम्रप्रणीतेन विधिना
दक्षिणाशामुखान् कृत्वा कृवार्थः पुनस्बत्सकाशमागच्छामि । न च त्वया