This page has been fully proofread once and needs a second look.

यो भाषते कारणवर्जितं वचो
न तद्वचः स्याद् विषमेव तद्भवेत् ॥ ५४ ॥
 
बलोपपन्नोऽपि हि बुद्धिमान्नरः
परं नयेन्न स्वयमेव वैरिताम् ।
भिषङ् ममास्तीति विचिन्त्य भक्षये-
दकारणं को हि विचक्षणो विषम् ॥ ५५ ॥
 
तदिदमापतितं ममाज्ञानादिति । यच्च हितैषिभिः सार्धमसंप्रधार्य क्रियते तस्ये-
दृश एव विपाको भवति । उक्तं च
 
सुहृद्भिराप्तैरसकृत्परीक्षितं
स्वयं च भूयः परिचिन्तिताश्रयम् ।
करोति कार्यं खलु यः स बुद्धिमान्
स एव लक्ष्म्या यशसश्च भाजनम् ॥ ५६ ॥
 
इति । एवमुक्त्वा काकोऽपि ततः स्थानात् प्रायात् ।
 
इति <error>द्वितिया</error><fix>द्वितिया</fix> कथा समाप्ता ।
 
तदेवं देव वाक्कृतादस्माकमुलूकैः सह वैरमिति । मेघवर्ण आह । अ-
वगतं मयेदम् । तात संप्रधार्याधुना यावत्तेऽस्मान् प्रति संनिपाताय नेहाग-
च्छन्ति तावदुपायश्चिन्त्यताम् । असावाह । स्वामिन् संधिविग्रहासनयानसं-
श्रयद्वैधीभावानां षण्णां गुणानां संधिविग्रहावादौ व्याख्यातौ । अधुना त्वास-
नयानसंश्रयद्वैधीभावानामस्माकमभाव एव । यत्कारणम् । आसनं बलीय-
सि द्विषति स्थानस्यात्मनश्च विनाशाय भवति । यानं तावत्स्थानपरित्यागाय ।
कं बलवन्तं संश्रयामः कस्य द्वैधीभावः । तदेवं गते सामदानभेददण्डानां <error>चतुर्णां-</error><fix>चतुर्णां</fix>
नयानां नास्त्यवकाशः । अस्ति पञ्चमोऽप्यशास्त्रकर्तुर्नयश्छलो नाम । तमङ्गी-
कृत्य तमेवाहं तद्विजयाय परिभवाय च प्रयतिष्ये । उक्तं च
 
बहवोऽबलवन्तश्च कृतवैराश्च शत्रवः ।
शक्ता वञ्चयितुं बुद्ध्या ब्राह्मणं छागलादिव ॥ ५७ ॥
 
सोऽब्रवीत् । कथं चैतत् । चिरंजीव्याह ।