This page has been fully proofread once and needs a second look.

संधिविग्रहम्
 
यो भाषते कारणवर्जितं वचो
 

न तद्वचः स्याद् विषमेव तद्भवेत् ॥ ५४ ॥

 
बलोपपन्नोऽपि हि बुद्धिमान्नरः

परं नयेन्न स्वयमेव वैरिताम् ।

भिषद्ङ् ममास्तीति विचिन्त्य भक्षये -
 
[ तन्त्रम् ३
 

दकारणं को हि विचक्षणो विषम् ॥ ५५ ॥
 

 
तदिदमापतितं ममाज्ञानादिति । यञ्च्च हितैषिभिः सार्धमसंप्रधार्य क्रियते तस्ये
-
दृश एव विपाको भवति । उक्तं च
 

 
सुहृद्भिराप्तैरकृत्परीक्षितं
 

स्वयं च भूयः परिचिन्तिताश्रयम् ।

करोति कार्यं खलु यः स बुद्धिमान्
 

स एव लक्ष्म्या यशसञ्श्च भाजनम् ॥ ५६ ॥
 

 
इति । एवमुक्त्वा काकोऽपि ततः स्थानात् प्रायात् ।

 
इति द्वितिया<error>द्वितिया</error><fix>द्वितिया</fix> कथा समाप्ता ।
 

 

 
तदेवं देव वाक्कृतादस्माकमुलुलूकैः सह वैरमिति । मेघवर्ण आ । अ
-
वगतं मयेदम् । तात संप्रधार्याधुना यावत्तेऽस्मान् प्रति संनिपाताय नेहाग-

च्छन्ति तावदुपायश्चिन्त्यताम् । असावाह । स्वामिन् संधिविग्रहासनयानसं-

श्रयद्वैधीभावानां षण्णां गुणानां संधिविग्रहावादीदौ व्याख्यातौ । अधुना त्वास-

नयानसंश्रय द्वैधीभावानामस्माकमभाव एव । यत्कारणम् । आसनं वलबलीय-

सि द्विषति स्थानस्यात्मनश्च विनाशाय भवति । यानं तावत्स्थानपरित्यागाय ।

कं बलवन्तं संश्रयामः कस्य द्वैधीभावः । तदेवं गते सामदानभेददण्डानां <error>चतुर्णां-
</error><fix>चतुर्णां</fix>
नयानां नास्त्यवकाशः । अस्ति पञ्चमोऽप्यशास्त्रकर्तुर्नयश्छलो नाम । तमग्रीङ्गी-

कृत्य तमेवाहं तद्विजयाय परिभवाय च प्रयतिष्ये । उक्तं च
 

 
बहवोsबलवन्तश्च कृतवैराश्च शत्रवः ।
 

शक्ता वञ्चयितुं बुद्धथाध्या ब्राह्मणं छागलादिव ॥ ५७ ॥

 
सोऽब्रवीत् । कथं चैत् । चिरंजीव्याह ।