This page has not been fully proofread.

संधिविग्रहम्
 
यो भाषते कारणवर्जितं वचो
 
न तद्वचः स्याद् विषमेव तद्भवेत् ॥ ५४ ॥
बलोपपन्नोऽपि हि बुद्धिमान्नरः
परं नयेन्न स्वयमेव वैरिताम् ।
भिषद् ममास्तीति विचिन्त्य भक्षये -
 
[ तन्त्रम् ३
 
दकारणं को हि विचक्षणो विषम् ॥ ५५ ॥
 
तदिदमापतितं ममाज्ञानादिति । यञ्च हितैषिभिः सार्धमसंप्रधार्य क्रियते तस्ये
दृश एव विपाको भवति । उक्तं च
 
सुहृद्भिराप्तैरकृत्परीक्षितं
 
स्वयं च भूयः परिचिन्तिताश्रयम् ।
करोति कार्य खलु यः स बुद्धिमान्
 
स एव लक्ष्म्या यशसञ्च भाजनम् ॥ ५६ ॥
 
इति । एवमुक्त्वा काकोऽपि ततः स्थानात् प्रायात् ।
इति द्वितिया कथा समाप्ता ।
 

 
तदेवं देव वाक्कृतादस्माकमुलुकैः सह वैरमिति । मेघवर्ण आइ । अ
वगतं मयेदम् । तात संप्रधार्याधुना यावत्तेऽस्मान् प्रति संनिपाताय नेहाग-
च्छन्ति तावदुपायश्चिन्त्यताम् । असावाह । स्वामिन् संधिविग्रहासनयानसं-
श्रयद्वैधीभावानां षण्णां गुणानां संधिविग्रहावादी व्याख्यातौ । अधुना त्वास-
नयानसंश्रय द्वैधीभावानामस्माकमभाव एव । यत्कारणम् । आसनं वलय-
सिद्विषति स्थानस्यात्मनश्च विनाशाय भवति । यानं तावत्स्थानपरित्यागाय ।
कं बलवन्तं संश्रयामः कस्य द्वैधीभावः । तदेवं गते सामदानभेददण्डानां चतुर्णां-
नयानां नास्त्यवकाशः । अस्ति पञ्चमोऽप्यशास्त्रकर्तुर्नयश्छलो नाम । तमग्री-
कृत्य तमेवाहं तद्विजयाय परिभवाय च प्रयतिष्ये । उक्तं च
 
बहवोsबलवन्तश्च कृतवैराश्च शवः ।
 
शक्ता वञ्चयितुं बुद्धथा ब्राह्मणं छागलादिव ॥ ५७ ॥
सोऽब्रवीत् । कथं चैवत् । चिरंजीव्याह ।