This page has been fully proofread once and needs a second look.

शृणोम्यहम् । संनिकृष्टं भूत्वोच्चैः श्रावयतम् । ततस्तौ निकटीभूय कथयतः ।
ततस्तत्संनिधानार्थं विश्वासमुपपादयता दधिकर्णेन धर्मशास्त्रं पठितम् ।
 
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतो वधीत् ॥ ४९ ॥
 
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ ५० ॥
 
अन्धे तमसि मज्जामः पशुभिर्ये यजामहे ।
अहिंसायाः परो धर्मो न भूतो न भविष्यति ॥ ५१ ॥
 
मातृवत् परदारांस्तु परद्रव्याणि लोष्टवत् ।
आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ॥ ५२ ॥
 
तत्किं बहुना तथा तौ छद्मना विश्वासमानीतौ येनाङ्कमुपगतावुभावप्ये-
कदैव तेन क्षुद्रेण गृहीतौ हतौ चेति ।
 
इति चतुर्थी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । क्षुद्रमर्थपतिं प्राप्येति । तत्सर्वथा नायं क्षुद्रो राज्य-
योग्य उलूक इति । तस्य तु तद्वचनं श्रुत्वा साध्वनेनाभिहितमिति मत्वाब्रुवन् ।
पुनरेव समवायं कृत्वा महद्राजकार्यं संप्रधारयिष्यामः । इत्युक्त्वा यथागतं
सर्वपक्षिणो विचेरुः । केवलस्त्ववशिष्टो भद्रपीठगतोऽभिषेकाभिमुखो दिवान्धः
केन चेदमनर्थायाभिहितं मम वायसेनेत्युपलब्धवार्त्त उलूको वायसवचनेनादीपि-
तमनास्तमाह । किं मयापकृतं भवतो येनाभिषेकव्याघातः कृत इति ।
 
संरोहतीषुणा विद्धं वनं परशुना हतम् ।
दग्धं दावानलेनापि न प्ररोहति वाक्क्षतम् ॥ ३ ॥
 
तत्किं बहुनाद्यदिवसादारभ्यास्माकं भवतां च वैरम् । इति चाभिधाय दि-
वान्धः क्रुधा यथागतं प्रायात् । असावपि वायसो भयव्याकुलश्चिन्तयामास ।
किमर्थं मया सामान्येऽर्थे कृतमिति । साध्वभिहितम् ।
 
<flag>अदेशकालार्थमनायतिक्षमं</flag>
यदप्रियं लाघवकारि चात्मनः ।