This page has been fully proofread once and needs a second look.

कथा ४..]
 
मार्जारकपिञ्जलशशककथा
 
शृणाणोम्यहम् । संनिकृष्टं भूत्वोच्चैः श्रावयतम् । ततस्तौ निकटीभूय कथयतः ।

ततस्तत्संनिधानार्थं विश्वासमुपपादयता दधिकर्णेन धर्मशास्त्रं पठितम् ।

 
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
 

तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतो वर्धाधीत् ॥ ४९ ॥

 
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।

शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ ५० ॥

 
अन्धे तमसि मज्जामः पशुभिर्ये यजामहे ।

अहिंसायाः परो धर्मो न भूतो न भविष्यति ॥ ५१ ॥

 
मातृवत् परदारांस्तु परद्रव्याणि लोष्टवत् ।
 

आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ॥ ५२ ॥
तल्कि

 
तत्किं
बहुना तथा तौ छद्मना विश्वासमानीतौ येनाङ्कमुपगतावुभावप्ये-

कदैव तेन क्षुद्रेण गृहीती इतौ हतौ चेति ।
 

 
इति चतुर्थी कथा समाप्ता ।
 

 
अतोऽहं ब्रवीमि । क्षुद्रमर्थपतिं प्राप्येति । तत्सर्वथा नायं क्षुद्रो राज्य-

योग्य उल्लूक इति । तस्य तु तद्वचनं श्रुत्वा साध्वनेनाभिहितभिति मत्वानुमिति मत्वाब्रुवन् ।

पुनरेव समवायं कृत्वा महद्राजकार्यं संप्रधारयिष्यामः । इत्युक्त्वा यथागतं

सर्वपक्षिणो विरु:चेरुः । केवलस्त्ववशिष्टो भद्रपीठगतोऽभिषेकाभिमुखो दिवान्धः

केन चेदमनर्थायाभिहितं मम बावायसेनेत्युपलब्धवार्त्त उलूको वायसवचनेनादीपि
-
तमनास्तमाह । किं मयापकृतं भवतो येनाभिषेकव्याघातः कृत इति ।
 

 
संरोहतीपुषुणा विद्धं वनं परशुना हतम् ।
 

दग्धं दावानलेनापि न प्ररोहति वाकृतक्क्षतम् ॥ १३ ॥
 
तकि

 
तत्किं
बहुनाद्यदिवमासादारभ्यास्माकं भवतां च वैरम् । इति चाभिधाय दि-

वान्भ:धः क्रुधा यथागतं प्रायात् । असावपि वायसो भयव्याकुलश्चिन्तयामास ।

किमर्थं मया सामान्येऽर्थे कृतमिति । साध्वीमतिम ।
वभिहितम् ।
 
<flag>
अदेशकालार्थमनाय नितिक्षमं
 
</flag>
यदप्रियं लाघवकारि चात्मनः ।