This page has not been fully proofread.

कथा ४..]
 
मार्जारकपिञ्जलशशककथा
 
शृणाम्यहम् । संनिकृष्टं भूत्वोचैः श्रावयतम् । ततस्तौ निकटीभूय कथयतः ।
ततस्तत्संनिधानार्थं विश्वासमुपपादयता दधिकर्णेन धर्मशास्त्रं पठितम् ।
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
 
तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतो वर्धात् ॥ ४९ ॥
एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ ५० ॥
अन्धे तमसि मज्जामः पशुभिर्ये यजामहे ।
अहिंसायाः परो धर्मो न भूतो न भविष्यति ॥ ५१ ॥
मातृवत् परदारांस्तु परद्रव्याणि लोष्टवत् ।
 
आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ॥ ५२ ॥
तल्कि बहुना तथा तौ छद्मना विश्वासमानीतौ येनाङ्कमुपगतावुभावप्ये-
कदैव तेन क्षुद्रेण गृहीती इतौ चेति ।
 
इति चतुर्थी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । क्षुद्रमर्थपतिं प्राप्येति । तत्सर्वथा नायं क्षुद्रो राज्य-
योग्य उल्लूक इति । तस्य तु तद्वचनं श्रुत्वा साध्वनेनाभिहितभिति मत्वानुवन् ।
पुनरेव समवायं कृत्वा महद्राजकार्य संप्रधारयिष्यामः । इत्युक्त्वा यथागतं
सर्वपक्षिणो विरु: । केवलस्त्ववशिष्टो भद्रपीठगतोऽभिषेकाभिमुखो दिवान्धः
केन चेदमनर्थायाभिहितं मम बायसेनेत्युपलब्धवार्त्त उलूको वायसवचनेनादीपि
तमनास्तमाह । किं मयापकृतं भवतो येनाभिषेकव्याघातः कृत इति ।
 
संरोहतीपुणा विद्धं वनं परशुना हतम् ।
 
दग्धं दावानलेनापि न प्ररोहति वाकृत ॥ १३ ॥
 
तकि बहुनायदिवमादारभ्यास्माकं भवतां च वैरम । इति चाभिधाय दि-
वान्भ: क्रुधा यथागतं प्रायात् । असावपि वायसो भयव्याकुलचिन्तयामास ।
किमर्थं मया सामान्येऽर्थे कृतमिति । साध्वीमतिम ।
अदेशकालार्थमनाय निक्षमं
 
यदप्रियं लाघवकारि चात्मनः ।