This page has been fully proofread once and needs a second look.

ञ्जलो नाम पक्षी प्रतिवसति स्म । तत आवयोः परस्परमेव संवासगुणादभेद्या
प्रीतिरुत्पन्ना प्रतिदिवसं च कृताहारविहारयोः प्रथमप्रदोषकाले सुभाषितप्रश्न-
प्रतिप्रश्नैः कालोऽतिवर्तते । अथ कदाचिदालापवेलायां सायंतनसमयेऽपि कपि-
ञ्जलो नायाति । यतो मम हृद्गतातीवाकुलता समुत्पन्नैवं चाचिन्तयम् । किमसौ
विनष्टो बद्धो वाथवान्यावास एतस्य प्रीतित्पन्ना येन नायातीति मम चिन्त-
यतो बहूनि दिनानि व्यतिक्रान्तानि । अनन्तरं च तस्यावासकोटरं दीर्घकर्णो
नाम शशक आगत्य प्रविष्टः । तं च दृष्ट्वाहमचिन्तयम् । स एव मे सुहृन्नास्ति
किं ममावासव्यापारेण । स तत्र कियत्कालं यावतिष्ठत् तावत् कपिञ्जलोऽत्रैव
समायातः । अथासौ कोटरगतं शशकं दृष्ट्वाह । भो मदीयमिदं स्थानं तच्छी-
घ्रमपगम्यतामितः । स तमाह । मूर्ख किं न ते विदितमुपस्थानभोग्य आवासो
भुक्तिश्च । कपिञ्जल आह । सन्त्यत्र प्राश्निकाः पृच्छामो देशरूपमिति । उक्तं
च धर्मशास्त्रे ।
 
वापीकूपतडागानां गृहस्यावसथस्य च ।
सामन्तप्रत्यया सिद्धिरित्येवं मनुरब्रवीत् ॥ ४७ ॥
 
तथा नामेति प्रतिपद्य प्रस्थितौ व्यवहारकारणाय । अहमपि कौतुकात्
तयोरेव पृष्ठतोऽनुगतः । पश्यामि किमत्र भविष्यतीति । ततो नातिदूरं गत्वा
कपिञ्जलः शशकमाह । कः पुनरावयोर्व्यवहारं द्रक्ष्यति । शशक आह । नन्व-
यं नदीपुलिनगतो दधिकर्णो नाम वृद्धमार्जारस्तपःसंश्रितः सत्त्वजातानुकम्पो
धर्मशास्त्रविद् वसति । सोऽस्माकं न्यायदर्शी भविष्यति । तच्च श्रुत्वा कपि-
ञ्जलोऽब्रवीत् । अलमनेन क्षुद्रेण । उक्तं च ।
 
न हि विश्वसनीय:यः स्यात् तपस्विछद्मना स्थितः ।
दृश्यन्ते बहवस्तीर्थे गलदन्तास्तपस्विनः ॥ ८ ॥
 
तच्च श्रुत्वा सुखोपायप्रवृत्तिप्रसाधनहरूपी दधिकर्णो मार्जारस्तद्वि-
श्वासनार्थं सुतरामादित्याभिमुखो द्विपादः स्थित ऊर्ध्वबाहुर्निमीलितैकनयनो जप-
न्नासीत् । जपतश्च तस्य विश्वस्तहृदयावुपश्लिष्टौ स्थानव्यवहारश्रावणमकुरु-
ताम् । भोस्तपस्विन् धर्मदेशक । आवयोर्विवादो वर्तते तद्धर्मशास्त्रद्वारेणा-
स्माकं निर्णयं देहि । तेन चाभिहितम् वृद्धत्वाद्धतेन्द्रियत्वाच्च <error>दुरान्न</error><fix>दूरान्न</fix> सम्यक्