This page has been fully proofread once and needs a second look.

निवर्तसेऽस्मादव्यापारात् ततोऽस्मत्तो महान्तमनर्थं प्राप्स्यसि । निवृत्तस्य
महान् विशेषो भविष्यति । अस्मज्ज्योत्स्नयाप्यायितशरीरः स्याः । अन्यथास्म-
द्रश्मिसंनिरोधाद् घर्माभितापितशरीरः सद्यः सपरिवारो विनाशमेष्यसीति ।
एवमुक्तवति दूते हस्तिराजोऽतीवभयक्षुभितहृदयस्तमाह । भद्र सत्यं मयाज्ञा-
नादपकृतं सोऽहमधुना शशिना सह विरोधं न करिष्यामीति । स आह । स
राजात्र सरस्येव तिष्ठति । तदागच्छतु भवानेकाकी यावदहं तं दर्शयामि ।
भगवन्तं प्रणम्य प्रसाद्य च गच्छ । इत्युक्त्वा तं गजं रात्रौ चन्द्रसरो नीत्वा
संपूर्णकलामण्डलमुदकगतं चन्द्रप्रतिबिम्बमदर्शयत् । असावपि हस्तिराजो देव-
ताप्रणामं परमशुचिर्भूत्वा करोमीति मत्वा द्विमनुष्यबाहुग्राह्यप्रमाणं करमम्भसि
प्रक्षिप्तवान् । अथ संक्षुभितोदकचलन्मण्डल इतश्चेतश्च चक्रारूढ इव बभ्राम ।
तेन गजश्चन्द्रसहस्रमपश्यत् । अथाविग्नहृदय इव प्रतिनिवृत्य विजयोऽब्रवीत् ।
कष्टं कष्टं द्विगुणतरमाकोपितस्त्वया चन्द्रमाः । स आह । केन हेतुना भगवां-
श्चन्द्रो मयि प्रकुपितः । विजयोऽब्रवीत् । स्पर्शनादस्य पानीयस्य । अथ तच्छ्रुत्वा
संलीनवालधिराकृष्य करं निकृष्टजानुरवनितलविन्यस्तशिराः प्रणम्य भगवन्तं
चन्द्रमसं हस्त्यवोचत् । देव । इदमज्ञानात्कृतं क्षम्यताम् । न चाहं पुनरिहाग-
मिष्यामि । इत्युक्त्वानवलोकयन्नेवापुनरागमनाय यथागतं प्रायात् ।
 
इति तृतीया कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । व्यपदेशेऽपि सिद्धिः स्यादिति । अपि च क्षुद्रोऽयमुलूको
दुरात्मा न शक्तः प्रजाः पालयितुम् । उक्तं च
 
क्षुद्रमर्थपतिं प्राप्य कुतो विवदतोः सुखम् ।
उभावपि क्षयं यातौ यथा शशकपिञ्जलौ ॥ ४६ ॥
 
विहगा ऊचुः । कथं चैतत् । सोऽब्रवीत् ।
 
अथ मार्जारकपिञ्जलशशककथा नाम चतुर्थी कथा ।
 
अस्ति । अहं पुरा कस्मिंश्चिद् वृक्षे न्यवसम् । तत्रैवाधस्तात् कोटरे कपि-