This page has been fully proofread once and needs a second look.

कथा ३ ५
 
हस्तिशशकेन्दुकथा
 
८१
 
निवर्तसेऽस्मादव्यापारात्
 
ततोऽस्मत्तो महान्तमनर्थं प्राप्स्यासयसि । निवृत्तस्य

महान् विशेषो भविष्यति । अस्मज्ज्योत्स्नयाप्यायितशरीरः स्याः । अन्यथास्म-

द्रश्मिसंनिरोधाद धद् घर्माभिता पितशरीरः सद्यः सपरिवारो विनाशमेष्यसीति ।

एवमुक्तवति दूते हस्तिरा जोऽतीभयक्षुमिभितहृदय स्तमाह । भद्र सत्यं मयाज्ञा-

नादपकृतं सोऽहमधुना शशिना सह विरोधं न करिष्यामीति । स आह । स

राजात्र सरस्येव तिष्ठति । तदागच्छतु भवानेकाकी यावदहं तं दर्शयामि ।

भगवन्तं प्रणम्य प्रसाद्य च गच्छ । इत्युक्त्वा तं गजं रात्रौ चन्द्रसरो नीत्वा

संपूर्णकलामण्डलमुदकगतं चन्द्रप्रतिबिम्बमदर्शयत् । असावपि हस्तिराजो देव-

ताप्रणामं परमशु चेचिर्भूत्वा करोमीति मत्वा द्विमनुष्यबाहुप्ग्राह्यप्रमाणं करमम्भसि

प्रक्षिप्तवान् । अथ संक्षुभितोदकचलन्मण्डल इतश्चेतश्च चक्रारूढ इव बभ्राम ।

तेन गजश्चन्द्रसहस्रमपश्यत् । अथाविग्हृदय इव प्रतिनिवृत्य विजयोऽब्रवीत् ।

कष्टं कष्टं द्विगुणतरमाकोपितस्त्वया चन्द्रमाः । स आह । केन हेतुना भगवां-

श्
चन्द्रो मयि प्रकुपितः । विजयोऽब्रवीत् । स्पर्शनादस्य पानीयस्य । अथ तच्छ्रुत्वा

संलीनवालधिराकृष्य करं निकृष्टजानुरवनितलविन्यस्तशिराः प्रणम्य भगवन्तं

चन्द्रमसं हस्त्यवोचत् । देव । इदमज्ञानात्कृतं क्षम्यताम् । न चाहं पुनरिहाग-

मिष्यामि । इत्युक्त्वानवलोकयन्नेवा पुनरागमनाय यथागतं प्रायात ।
 
त् ।
 
इति तृतीया कथा समाप्ता ।
 

 
अतोऽहं ब्रवीमि । व्यपदेशेऽपि सिद्धिः स्यादिति । अपि च क्षुद्रोऽयमुल्लूको

दुरात्मा न शक्तः प्रजाः पालयितुम् । उक्तं च
 

 
क्षुद्रमर्थपतितिं प्राप्य कुतो विवदतोः सुखम् ।
 

उभावपि क्षयं यातौ यथा शशकपिञ्जलौ ॥ ४६ ॥
वि

 
विह
गा ऊचुः । कथं चैतत् । सोऽब्रवीत् ।
 

 
अथ मार्जारकपिञ्जलशशककयाथा नाम चतुर्थी कथा ।
 

 
अस्ति । अहं पुरा कस्मिंश्चिद् वृक्षे न्यवसम् । तत्रैवास्तास्त् कोटरे कपि-
११