This page has been fully proofread once and needs a second look.

दूतं वा लेखं वा दृष्ट्वाहं नरपतेरदृष्टस्य ।
जानामि तं नरेन्द्रं प्राज्ञं प्रज्ञाविहीनं वा ॥ ३९ ॥
 
दूत एव हि संदध्याद् दूतो भिन्द्याच्च संहतान् ।
दूतस्तत् कुरुते कर्म सिध्यन्ति येन मानवाः ॥ ४० ॥
 
त्वयि च गते स्वयमेवाहं गत इव । इति । यत्कारणम्
 
ब्रूया अनुगतं युक्तं मन्यसे यच्च साध्विति ।
ब्रूया अनुमतं सर्वमस्मद्वचनमेव तत् ॥ ४१ ॥
 
अयं दूतार्थसंक्षेपः प्रत्यर्थनियता गिरः ।
प्रयोजनं क्रियोत्पादि कियच्छक्येत भाषितम् ॥ ४२ ॥
 
इति शशराजमामन्त्र्य विजयशशो हस्तिराजसमीपं प्रायात् । गत्वा च द्विरदपतिं
दृष्ट्वा चिन्तयामास । अशक्योऽनेन सहास्मद्विधानामल्पकायानां संगमः । यदाहुः
 
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ।
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥ ४३ ॥
 
अतोऽहं पर्वतशिखरमारुह्य हस्तिराजमभिवादयामीति । तथैवानुष्ठीयाब्रवीत् ।
भो अपि भवतः सुखम् । तच्च श्रुत्वा वीक्ष्य हस्तिराजः शशकमाह । कस्त्वं
कुतो भवान् । स आह । दूतोऽहं भगवता चन्द्रेण प्रेषितः । यूथपतिराह ।
कार्यमुच्यताम् । शशक आह । जानात्येव भवान्यथार्थवादिनो दूतस्य न
दोषः करणीयः । दूतमुखा हि राजानः सर्व एव । उक्तं च
 
उद्धृतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।
ते वै यथोक्तवक्तारो न वध्याः पृथिवीभुजा ॥ ४४ ॥
 
सोऽहं चन्द्राज्ञया ब्रवीमि । कथं नामात्मानं परं चैवापरिछिद्य भवान् परा-
पकारे प्रवर्तते । उक्तं च
 
परेषामात्मनश्चैव योऽविचार्य बलाबलम् ।
कार्यायोत्तिष्ठते मोहादापदः स समीहते ॥ ४५ ॥
 
तत्त्वयास्मन्नामप्रसिद्धं चन्द्रसरोऽन्यायेन धर्षितम् । तत्र चास्मत्संरक्षणीया:याः
शशका व्यापादिताः । न चैतद्युक्तम् । ते तु मयैव भर्तव्याः । येनाहं
तानुरसा धारयाम्यत एव शशाङ्क इति लोके प्रख्यातनामाऽस्मि । स त्वं यदि न