This page has been fully proofread once and needs a second look.

संधिविग्रहम्
 
दूतं वा लेखं वा दृष्ट्वाहं नरपतेरदृष्टस्य ।

जानामि तं नरेन्द्रं प्राज्ञं प्रज्ञाविहीनं वा ॥ ३९ ॥

 
दूत एव हि संध्याद् दूतो भिन्द्याच्च संहतान् ।

दूतस्तत् कुरुते कर्म सिध्यन्ति येन मानवाः ॥ ४० ॥

 
त्वयि च गते स्वयमेवाहं गत इव । इति । यत्कारणम्
 
[ तन्त्रम् ३
 

 
ब्रूया अनुगतं युक्तं मन्यसे यच्च साध्विति ।

ब्रू
या अनुमतं सर्वमस्मद्वचनमेव तत् ॥ ४१ ॥

 
अयं दूतार्थसंक्षेपः प्रत्यर्थनियता गिरः ।

प्रयोजनं क्रियोत्पादि कियच्छक्येत भाषितुमतम् ॥ ४२ ॥

 
इति शशराजमामन्त्र्य विजयशशो हस्तिराजसमीपं प्रायात् । गत्वा च द्विरदपति
तिं
दृष्ट्वा चिन्तयामास । अशक्योऽनेन सहास्मद्विधानामल्पकायानां संगमः। या । यदाहुः

 
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ।
 

हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥ ४३ ॥

 
अतोऽहं पर्वतशिखरमारुह्य इन्हस्तिराजमभिवादयामीति । तथैवानुष्ठीयात्ब्रवीत्

भो अपि भवतः सुखम् । तच्च श्रुत्वा वीक्ष्य हस्तिराजः शशकमाह । कस्त्वं

कुतो भवान् । स आह । दूतोऽहं भगवता चन्द्रेण प्रेषितः । यूथपतिराह ।

कार्यमुच्यताम् । शशक आह्व । जानात्येव भवान्यथार्थवाविदिनो दूतस्व म
य न
दोषः करणीयः । दूतमुखा हि राजानः सर्व एव । उक्तं
 

 
उद्धृतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।
 

ते वै यथोक्तवक्तारो न वध्याः पृथिवीभुजा ॥ ४४ ॥

 
सोऽहं चन्द्राज्ञया ब्रवीमि । कथं नामात्मानं पर वैरं चैवापरिछिद्य भवान् परा-

पकारे प्रवर्तते । उक्तं च
 

 
परेषामात्मनश्चैव योऽविचार्य बलाबलम् ।
 

कार्यायोत्तिष्ठते मोहावादापदः स समीहते ॥ ४५ ॥
तत्त्वया स्म

 
तत्त्वयास्मन्
नामप्रसिद्धं चन्द्रसरोऽन्यायेन र्षितम् । तत्र चास्मत्संरक्षणीया:

शशका व्यापाविदिताः । न चैतद्युक्तम् । ते तु मयै भर्तम्व्याः । येना
हं
तानुरसा धारयाम्यत एव शशाङ्क इति लोके प्रख्यातनामाऽस्मि । स त्वं दि