This page has been fully proofread once and needs a second look.

सोऽयं दृष्टदिग्दाहं करोत्यव्यपदेशक्षमश्च । उक्तं च
 
व्यपदेशेऽपि सिद्धिः स्यादशक्तश्च नराधिपः ।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥ ३६ ॥
 
पक्षिण ऊचुः । कथं चैतत् । काक आह ।
 
अथ हस्तिशशकेन्दुकथा नाम तृतीया कथा ।
 
अस्ति कदाचिद् द्वादशवार्षिक्यनावृष्टिरापतिता । तया च तडागह्रदप-
ल्वलसरांसि शोषमुपागतानि । सर्वसत्त्वानां तृष्णार्तानां महद्व्यसनमुत्पन्नं विशे-
षेण तु दन्तिनाम् । अथ चतुर्दन्तो नाम हस्तिराजः । सोऽन्यैर्गजैर्विज्ञापितः ।
देव । पिपासाकुलाः कलभाः केचिन् मृतावस्थाः सन्ति । मृताश्चापरे । तच्चि-
न्त्यतां कश्चित् पिपासापनयनायोपायः । ततो यूथपतिनाष्टास्वपि दिक्षु वेगवन्तो
धावन्त उदकान्वेषणाय प्रेषिताः । तत्र चैकेनागत्य कथितम् । देव नातिदूरे
विमलजलसंपूर्णं व्योमैकदेशमिव महच्चन्द्रसरो नाम सरस्तिष्ठति । हस्तिराजश्च
तथैव सर्वान् गृहीत्वा सत्वरं सहर्षं प्राप्तस्तत् सरः । अवतरद्भिश्च तैः समन्ता-
दसुखावतारे तस्मिन् सरस्तीरे पूर्वकृतावासाः शशकाः संपिष्टशिरोग्रीवा बहवः
कृताः । अथ पीत्वावगाह्य गते तस्मिन् गजयूथे हतशेषाः शशका:काः संप्रधारयि-
तुमारब्धाः । अथ शिलीमुखो नाम शशकराज आह । अधुना किं करणीयम् ।
विनष्टमस्मत्कुलम् । दृष्टमार्गैरेभिः पुनरिहावश्यमागन्तव्यम् । तद्यावदेत इह ना-
गच्छन्ति तावदुपायश्चिन्त्यतामिति । अथ तत्र बहुवृत्तान्तदर्शी विजयो नाम
शशकस्तानाह । शक्यमेतत् । न पुनर्यथेहागमिष्यन्ति त इयं मे प्रतिज्ञा ।
किं तु मम कर्मसाक्षिणः केवलं प्रसादः क्रियताम् । इति । तच्छ्रुत्वा शिलीमुखः
सहर्षमिदमाह । <error>भद्र,</error><fix>भद्र</fix> अवश्यमेतदेव । यत्कारणम्
 
नीतिशास्त्रार्थतत्त्वज्ञो देशकालविभागवित् ।
विजयः प्रेष्यते यत्र तत्र सिद्धिरनुत्तमा ॥ ३७ ॥
 
हितवक्ता मितवक्ता संस्कृतवक्ता न चापि बहुवक्ता ।
अर्थान् विमृश्य वक्ता स हि वक्ता सर्वकार्यकरः ॥ ३८॥
 
भवतो बुद्धिप्रागल्भ्यमुपलभ्य मम दूरस्थस्यापि शक्तित्रयं इलिनो ज्ञास्यन्ति ।
यतः