This page has been fully proofread once and needs a second look.

सस्यभक्षणं करोति । न कश्चिद् द्वीपिबुद्धया तदन्तिकमुपेत्य सस्येभ्यो निवार-
यति । अथ कदाचित् केनापि कार्षिकेण सस्यरक्षकेण स दृष्टः । द्वीप्ययं नष्टोऽ-
स्मीति मत्वा कुब्जीभूय धूसरकम्बलावेष्टिततनुरुद्यतधनुष्पाणिः शनैः शनैरपक्र-
मितुमारब्धः । तं च दूरे दृष्ट्वा गर्दभः पुष्टाङ्गो जातबलो गर्दभीयमिति मत्वा
निष्कृष्टायुः परं वेगमास्थायोपसर्पितुमारब्धः । असावपि शीघ्रतरवेगो धावति ।
गदर्भश्चैवमचिन्तयत् । कदाचिदियं द्वापिचर्मव्यवस्थितशरीरं मां दृष्ट्वान्यथैवाव-
गच्छेत् । अतोऽहमस्याः स्वां प्रकृतिमास्थाय वाशितेन मनोह्लादनं करिष्यामि ।
इति वाशितुमारब्धः । तच्च श्रुत्वा सस्यरक्षकेण शब्दाद्गर्दभोऽयमिति मत्वा
प्रतिनिवृत्यासाविषुणा व्यापादितः ।
 
इति प्रथमा कथा समाप्ता ॥
 
अतोऽहं ब्रवीमि । सुचिरं हि चरन्नित्यमिति । एवमस्माकमपि वाग्दोषा-
दुलूकैः सह वैरमुत्पन्नमिति । मेघवर्ण आह । कथमेतत् । सोऽकथयत् ।
 
अथ पक्षिराजनियोजनकथा नाम द्वितीया कथा ।
 
अस्त्यराजके सर्वपक्षिणां संभूय चित्तमुत्पन्नम् । कतमं राजानं पक्षिणा-
मभिषिञ्चाम इति । ततस्तेषां मतमुत्पन्नम् । उलूकोऽभिषिच्यतामिति । तस्य
यथाविधि सर्वाभिषेकोचितद्रव्यसंभारं कृत्वा छत्रचामरव्यजनसिंहासनभद्रपी-
ठक्षौमवासोनन्द्यावर्तादिनाभिषेकः प्रारब्धः । अथ नभसा व्रजन् काकः समा-
यातः । ते तुः सं दृष्ट्वा स्तम्भिताभिषेकाः । अवश्यमयमपि समुदायेऽभ्यन्त-
रीकर्तव्यः । यत्कारणं महदिदं पार्थिवं राजकार्यम् । पृष्टश्चासावागतः । भद्र
किं तवाप्येतदभिरुचितं प्रजापालत्वं दिवान्धस्येति । अथासावाह । किमन्ये
पक्षिण उत्सादं गता हंसकारण्डचक्रवाकक्रौञ्चमयूरकोकिलहारीतजीवजीवका-
दयो येनायमप्रसन्नदृष्टिरुलूको राज्येऽभिषिच्यते । अपि च
 
वक्रनासं सुजिह्माक्षं क्रूरमप्रियदर्शनम् ।
अक्रुद्धस्य मुखं पापं क्रुद्धः किं नु करिष्यति ॥ ३४ ॥
 
स्वभावरौद्रमत्युग्रं क्षुद्रमप्रियवादिनम् ।
उलूकमभिषिच्येम कथं रक्षा भविष्यति ॥ ३५ ॥