This page has been fully proofread once and needs a second look.

संधिविग्रहम्
 
[ तन्त्रम् ३
 
सस्यभक्षणं करोति । न कश्चिद् द्वीपिबुद्धया तदन्तिकमुपेत्य सस्येभ्यो निवार-

यति । अथ कदाचित् केनापि कार्षिकेण सस्यरक्षकेण स दृष्टः । द्वीप्ययं नष्टोऽ-

स्मीति मत्वा कुब्जीभूय धूसरकम्बलावेष्टितत नुरुद्यतधनुष्पाणिः शनैः शनैरपत्क्र-

मितुमारब्धः । तं च दूरे दृष्ट्वा गर्दभः पुष्टाङ्गो जातबलो गर्दभीयमिति मत्वा

निष्कृष्टायुः परं वेगमास्थायोपसर्पितुमारब्धः असावपि शीघ्रतरवेगो धावति ।

गदर्भश्चैवमचिन्तयत् । कदाचिदियं द्वापिचर्मव्यवस्थितशरीरं मां दृष्टाट्वान्यथैवा-

गच्छेत् । अतोऽहमस्याः स्वां प्रकृतिमास्थाय वाशितेन मनोहाह्लादनं करिष्यामि ।

इति वाशितुमारब्धः । तच्च श्रुत्वा सम्स्यरक्षकेण शादशब्दाद्गर्दभोऽयमिति मत्वा

प्रतिनिवृत्यासाविपुषुणा व्यापादितः ।
 

 
इति प्रथमा कथा समाप्ता ॥
 

 
अतोऽहं ब्रवीमि । सुचिरं हि चरन्नित्यमिति । एवमस्माकमपि वाग्दीपादोषा-

दुलूकैः सह वैरमुत्पन्नमिति । मेघवर्ण आह । कथमेतत् । सोऽकश्रयम् ।
 
थयत् ।
 
अथ पक्षिराजनियोजनकथा नाम द्वितीया कथा ।

 
अस्त्यराजके सर्वपक्षिणां संभूय विचित्तमुत्पन्नम् । कतमं राजानं पक्षिणा-

मभिषिश्याञ्चाम इति । ततस्तेषां मतमुत्पन्नम् । उल्लूकोऽभिषिच्यतामिति । तस्य

यथाविधि सर्वाभिषेको चितद्रव्यसंभारं कृत्वा छत्रचामरव्यजनसिंहानभद्रपी-

ठक्षौमवासोनन्द्यावर्तादिनाभिषेकः प्रारब्धः । अथ नभसा ब्व्रजन् काकः समा-

यातः । ते तुः सं दृष्टाट्वा स्तम्भिताभिषेकाः । अवश्यमयमपि समुदायेऽभ्यन्त
-
रीकर्तव्यः । यत्कारणं महदिदं पार्थिवं राजकार्यम् । प्रपृष्टश्वाचासावागतः । भद्र

किं तवाप्येतदभिरुचितं प्रजापालत्वं दिवान्धस्येति । अथासावा । किमन्ये

पक्षिण उत्सादं गता हंसकारण्डचक्रवाक क्रौञ्चमयूरको किलहारीत जीवजीवका
-
दयो येनायमप्रसन्नदृष्टिरुलूको राज्येऽभिषिच्यते । अपि च

 
वक्रनासं सुजिझाह्माक्षं क्रूरमप्रियदर्शनम् ।
 

अक्रुद्धंस्य मुखं पापं क्रुद्धः किं नु करिष्यति ॥ ३४ ॥

 
स्वभावरौद्रमत्युमंग्रं क्षुद्रमप्रियवादिनम् ।

ल्लूकमध्येंभिषिच्येयं कथं रक्षा भविष्यति ॥ ३५ ॥