This page has not been fully proofread.

संधिविग्रहम्
 
[ तन्त्रम् ३
 
सस्यभक्षणं करोति । न कश्चिद् द्वीपिबुद्धया तदन्तिकमुपेत्य सस्येभ्यो निवार-
यति । अथ कदाचित् केनापि कार्षिकेण सस्यरक्षकेण स दृष्टः । द्वीप्ययं नष्टोऽ-
स्मीति मत्वा कुब्जीभूय धूसरकम्बलावेष्टितत नुरुद्यतधनुष्पाणिः शनैः शनैरपत्र-
मितुमारब्धः । तं च दूरे दृष्ट्वा गर्दभः पुष्टाङ्गो जातबलो गर्दभीयमिति मत्वा
निष्कृष्टायुः परं वेगमास्थायोपसर्पितुमारब्धः असावपि शीघ्रतरवेगो धावति ।
गदर्भश्चैवमचिन्तयत् । कदाचिदियं द्वापिचर्मव्यवस्थितशरीरं मां दृष्टान्यथैवाष-
गच्छेत् । अतोऽहमस्याः स्वां प्रकृतिमास्थाय वाशितेन मनोहादनं करिष्यामि ।
इति वाशितुमारब्धः । तच्च श्रुत्वा सम्यरक्षकेण शादर्दभोऽयमिति मत्वा
प्रतिनिवृत्यासाविपुणा व्यापादितः ।
 
इति प्रथमा कथा समाप्ता ॥
 
अतोऽहं ब्रवीमि । सुचिरं हि चरन्नित्यमिति । एवमस्माकमपि वाग्दीपा-
दुलूकैः सह वैरमुत्पन्नमिति । मेघवर्ण आह । कथमेतत् । सोऽकश्रयम् ।
 
अथ पक्षिराजनियोजनकथा नाम द्वितीया कथा ।
अस्त्यराजके सर्वपक्षिणां संभूय वित्तमुत्पन्नम । कतमं राजानं पक्षिणा-
मभिषिश्याम इति । ततस्तेषां मतमुत्पन्नम् । उल्लूकोऽभिषिच्यतामिति । तस्य
यथाविधि सर्वाभिषेको चितद्रव्यसंभारं कृत्वा छत्रचामरव्यजनसिंहामनभद्रपी-
ठक्षौमवासोनन्द्यावर्तादिनाभिषेकः प्रारब्धः । अथ नभसा ब्रजम काकः समा-
यातः । ते तुः सं दृष्टा स्तम्भिताभिषेकाः । अवश्यमयमपि समुदायेऽभ्यन्त
रीकर्तव्यः । यत्कारणं महदिदं पार्थिव राजकार्यम् । प्रश्वासावागतः । भद्र
किं तवाप्येतदभिरुचितं प्रजापालत्वं दिवान्धस्येति । अथासावाद । किमन्ये
पक्षिण उत्सादं गता हंसकारण्डचक्रवाक क्रौञ्चमयूरको किलहारीत जीवजीवका
दयो येनायमप्रसन्नदृष्टिरुलूको राज्येऽभिषिच्यते । अपि च
वक्रनासं सुजिझाक्षं क्रूरमप्रियदर्शनम् ।
 
अक्रुद्धंस्य मुखं पापं क्रुद्धः किं नु करिष्यति ॥ ३४ ॥
स्वभावरौद्रमत्युमं क्षुद्रमप्रियवादिनम् ।
उल्लूकमध्यें कथं रक्षा भविष्यति ॥ ३५ ॥