This page has been fully proofread once and needs a second look.

असंगृहीतस्य पुनर्मन्त्रस्य शृणु यत्फलम् ।
अहीनं धर्मकामाभ्यामर्थं प्राप्नोति केवलम् ॥ २८ ॥
 
अथ व्यवसितानुज्ञा छेदनं संशयस्य च ।
अनिशं तस्य च ज्ञानं मन्त्रिणां विविधं फलम् ॥ २९ ॥
 
तद्यथा यो मन्त्रो विस्रम्भणं गच्छति तथा प्रयतितव्यम् । यत्कारणम्
 
मिथ्या प्रणिहितो मन्त्रः प्रयोक्तारमसंशयम् ।
दुरिष्ट इव वेतालो नानिहत्योपशाम्यति ॥ ३० ॥
 
आत्मपक्षक्षयायैव परपक्षोदयाय च ।
मन्त्रद्वैधममात्यानां तन्न स्यादिह भूतये ॥ ३१ ॥
 
आयव्ययौ यस्य च संविभक्तौ
छन्नश्च चारो निभृतश्च मन्त्रः ।
न चाप्रियं मन्त्रिषु यो ब्रवीति
स सागरान्तां पृथिवीं प्रशास्ति ॥ ३२ ॥
 
तदेवं पुनर्ब्रवीमि । युद्धं न श्रेय इति । संधिरप्यशक्योऽर्थः सहजवैरानु-
बन्धानाम् । तद्यदि मयावश्यं मन्त्रयितव्यं तदपनीयन्तामेते मन्त्रिमात्रव्यपदेशके-
वलोपजीविनः कथाकुशलाः । न च करणीयेष्वात्यायिकेषु षट्कर्णं रहस्यं फलवद्भ-
वति । तथा चानुष्ठिते मेघवर्ण आह । तात बालभावादनभिज्ञोऽस्मि । यथा
ब्रवीषि तथा करोमि। त्वदायत्तं हि सर्वमिदम् । त्वमधुनार्थवादी ज्ञानविज्ञान-
संपन्नः पितृक्रमेण हितैषी । किं तु कौतूहलमुच्यताम् । कथं पुनरस्माकमुलूकैः
सह वैरमुत्पन्नमिति । सोऽब्रवीत् । भद्र वाग्दोषात् ।
 
सुचिरं हि चरन्नित्यं ग्रीष्मे सस्यमबुद्धिमान् ।
द्वीपिचर्मप्रतिच्छन्नो वाग्दोषाद्रासभो हतः ॥ ३३ ॥
 
सोऽब्रवीत् । कथं चैतत् । चिरंजीव्याह ।
 
अथ द्वीपिचर्मप्रतिच्छन्नरासभकथा नाम प्रथमा कथा ।
 
अस्ति कस्यचिद्रजकस्य वस्त्रनयनातिभारपीडया गर्दभोऽवसन्नः । रजकेन
चासौ पोषणबुद्धिना द्वीपिचर्मणा परिच्छाद्य रात्रौ परसस्येषु मुक्तः । स च यथेष्टं